________________
Shri Mahal
Pradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Gyanmandir
| द्यवाप्तिसाध्या मोक्षप्राप्तिः प्रकर्षेण तत्त्वज्ञैः 'उच्यते' प्रोच्यत इति ॥ २३ ॥ किंभूतोऽसावाश्वासद्वीपो भवति? कीदृग्विधेन वाऽसावाख्यायत इत्येतदाह-मनोवाकार्यरात्मा गुप्तो यस्य स आत्मगुप्तः, तथा 'सदा सर्वकालमिन्द्रियनोइन्द्रियदमनेन दान्तोवश्येन्द्रियो धर्मध्यानध्यायी वेत्यर्थः, तथा छिन्नानि-नोटितानि संसारस्रोतांसि येन स तथा, एतदेव स्पष्टतरमाह-निर्गत आश्रवः-प्राणातिपातादिकः कर्मप्रवेशद्वाररूपो यस्मात्स निराश्रवो य एवंभूतः स 'शुद्धं समस्तदोषापेतं धर्ममाख्याति, किंभूतं धर्म ?—'प्रतिपूर्ण निरवयवतया सर्वविरत्याख्यं मोक्षगमनैकहेतुम् 'अनीदृशम्' अनन्यसदृशमद्वितीयमितियावत् ॥ २४ ॥
एवंभूतधर्मव्यतिरेकिणां दोषाभिधित्सयाऽऽह१ तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धा मोत्ति य मन्नंता, अंत एते समाहिए ॥ २५ ॥ |ते य बीओदगं चेव, तमुहिस्सा य जं कडं। भोच्चा झाणं झियायंति, अखेयन्नाऽ[अ]समाहिया ॥२६॥६॥
जहा ढंका य कंका य, कुलला मग्गुका सिही। मच्छेसणं झियायंति, झाणं ते कल्लुसाधमं ॥ २७ ॥६॥ । एवं तु समणा एगे, मिच्छदिट्टी अणारिया। विसएसणं झियायंति, कंका वा कलुसाहमा ॥ २८ ॥ || तमेवंभतं शुद्ध परिपूर्णमनीदृशं धर्ममजानाना 'अप्रबद्धा' अविवेकिनः 'पण्डितमानिनों वयमेव प्रतिबद्धा धर्मतत्त्वमि-IM इत्येवं मन्यमाना भावसमाधेः-सम्यग्दर्शनाख्यादन्ते-पर्यन्तेऽतिदूरे वर्तन्त इति, ते च सर्वेऽपि परतीर्थिका द्रष्टव्या इति ॥२५॥
किमिति ते तीथिका भावमार्गरूपात्समाधेरे वर्तन्त इत्याशङ्याह-'ते च' शाक्यादयो जीवाजीवानभिज्ञतया 'बीजानि'
caeeeeeeeeeeeeeeeeeee
For Private And Personal