________________
Shri Mahavion radhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
iltyanmandir
सूत्रकृताङ्गं शीलाका- चार्यायवृ.
त्तियुतं ।
॥१९॥
समाधयो हि स्पर्शादिसुखोत्पादका अनेकान्तिका अनात्यन्तिकाश्च भवन्ति अन्ते चावश्यमसमाधिमुत्पादयन्ति, तथा चोक्तम्
समा "यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥१॥" इत्यादि, तदेवं ध्यध्ययन 'बुद्धः अवगततत्त्वः स चतुर्विधेऽपि ज्ञानादिके रतो-व्यवस्थितो 'विवेके वा' आहारोपकरणकषायपरित्यागरूपे द्रव्यभावात्मके रतः सन्नेवंभूतश्च स्यादित्याह-प्राणानां दशप्रकाराणामप्यतिपातो-विनाशस्तस्माद्विरतः स्थितः सम्यग्मार्गेषु आत्मा यस्य सः पाठान्तरं वा 'ठियचित्ति स्थिता शुद्धस्वभावात्मना अचिः-लेश्या यस्य स भवति स्थितार्चिा,-सुविशुद्धस्थिरलेश्य इत्यर्थः ॥६॥ किञ्च–'सर्व चराचरं 'जगत् प्राणिसमूहं समतया प्रेक्षितुं शीलमस्य स समतानुप्रेक्षी समतापश्यको वा, न कश्चित्प्रियो नापि द्वेष्य इत्यर्थः, तथा चोक्तम्-"नत्थि य सि कोइ विस्सो पिओ व सवेसु चेव जीवेसु" तथा-'जह मम ण पियं दुक्खमित्यादि, JI समतोपेतश्च न कस्यचित्प्रियमप्रियं वा कुर्यान्निःसङ्गतया विहरेद्, एवं हि सम्पूर्णभावसमाधियुक्तो भवति, कश्चित्तु भावसमाधिना सम्यगुत्थानेनोत्थाय परीषहोपसर्गस्तर्जितो दीनभावमुपगम्य पुनर्विषण्णो भवति विषयार्थी वा कश्चिद्गार्हस्थ्यमप्यवल-18 म्बते रससातागौरवगृद्धो वा पूजासत्काराभिलाषी स्यात् तदभावे दीनः सन् पार्श्वस्थादिभावेन वा विषण्णो भवति, कश्चित्तथा सम्पूजनं वस्त्रपात्रादिना प्रार्थयेत् श्लोककामी च' श्लाघाभिलाषी च व्याकरणगणितज्योतिषनिमित्तशास्त्राण्यधीते कश्चिदिति ॥७॥ किश्चान्यत्-साधनाधाय-उद्दिश्य कृतं निष्पादितमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारोपकरणादिकं निकामम्-अत्यर्थ ॥१९॥ यःप्रार्थयते स निकाममीणेत्युच्यते । तथा 'निकामम' अत्यर्थ आधाकर्मादीनि तनिमित्तं निमत्रणादीनि वा सरति-चरति १ नास्ति तस्य कोऽपि द्वेष्यः प्रियश्च सर्वेषु चैव जीवेषु ॥
For Private And Personal