________________
Shri Mahan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaganmandir
तत्र नरकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यनरक आगमतो नोआगमतश्र, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीर भव्य शरीरव्यतिरिक्तः 'इहैव ' मनुष्य भवे तिर्यग्भवे वा ये केचनाशुभकर्मकारित्वादशुभाः सत्त्वाः कालकसौकरिकादय इति, यदिवा यानि कानिचिदशुभानि स्थानानि चारकादीनि याच नरकप्रतिरूपा वेदनास्ताः सर्वा द्रव्यनरका इत्यभिधीयन्ते यदिवा कर्मद्रव्यनोकर्मद्रव्यभेदाद् द्रव्यनरको द्वेधा, तत्र नरकवेद्यानि यानि बद्धानि कर्माणि तानि चैकभविकस्य बद्धायुष्कस्याभिमुखनामगोत्रस्य चाश्रित्य द्रव्यनरको भवति, नोकर्मद्रव्यर्नरकस्त्विहैव | येशुमा रूपरसगन्धवर्णशब्दस्पर्शा इति, क्षेत्रनरकस्तु 'नरकावकाश : ' कालमहाकालरौरवमहारौरवाप्रतिष्ठानाभिधानादिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः, कालनरकस्तु यत्र यावती स्थितिरिति, भावनरकस्तु ये जीवा नरकायुष्कमनुभवन्ति तथा नरकप्रायोग्यः कर्मोदय इति एतदुक्तं भवति - नरकान्तर्वर्तिनो जीवास्तथा नारकायुष्कोदयापादितासातावेदनीयादिकर्मोदयाचैतद् द्वितयमपि भावनरक इत्यभिधीयते इति, तदेवं 'थुला' अवगम्य तीव्रमसहां 'नरकदुःखं' क्रकचपाटनकुम्भीपाकादिकं परमाधार्मिकापादितं परस्परोदीरणाकृतं स्वाभाविकं च 'तपश्चरणे' संयमानुष्ठाने नरकपातपरिपन्थिनि स्वर्गापवर्गागमनैकतावात्महितमिच्छता 'प्रयतितव्यं परित्यक्तान्यकर्तव्येन यत्तो विधेय इति ॥ साम्प्रतं विभक्तिपद निक्षेपार्थमाहणामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ विभक्तीए णिक्खेवो छव्विहो होइ ॥ ६६ ॥ विभक्तेर्नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामविभक्तिर्यस्य कस्यचित्सचित्तादेर्द्रव्यस्य विभक्तिरिति
१ नरकास्तु प्र० । २ रूपं मूर्तिः ( आकारः ) । लावण्यं वा ।
For Private And Personal
Deses