________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५)
मतिदो वरदोऽस्तु सदोदयदः ॥ २ ॥ जगतां प्रभुतां भवितारकतां भविता लविता भववल्लिवनम् ॥ सुतपश्चरिता शिवमातनुर्ता जितशत्रुसुनन्दन आप्तवरः ॥३॥
॥ श्रीसम्भवनाथचैत्यवन्दनम् ॥ (अनुष्टुब्)
प्रगाढपारमानेता, दुस्तरस्य भवोदधेः ॥ कामितानि प्रदत्ते यद्धर्मः कल्पतरूपमः ॥१॥ चारुपोतं भवाम्भोधौ, विश्वनाथं तमीश्वरम् ॥ यस्य वागमृतं पीत्वा - क्षयं यान्ति पदं जनाः ॥२॥ श्रुताम्भोजसरोवर्य, सत्सङ्घातविधुं विभुम् ॥ सर्वदा सम्भवं भक्त्या, जितारेर्नन्दनं स्तुवे ॥३॥ (त्रिभिर्विशेषकम् ॥)
॥ श्रीअभिनन्दन चैत्यवन्दनम् ॥ ( वंशस्थवृत्तम् ) सुरासुरेज्यं रुचिरं सुखालयं हरन्तमीशं प्रचुरं महाभयम् ॥
For Private And Personal Use Only