________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२)
भव्यश्रिये भवतु पापवनीकृशानुः ॥२॥ कृत्वा तपोनिचयमाशु मुदाप्तमुक्तिं तं कर्मपङ्कजहिमं शमवारिराशिम् ॥ शुद्धप्रबोधजलधिं यदुवंशकेतुं वन्दे समुद्रविजयाङ्गजमाप्तवर्यम् ॥३॥ ज्ञानश्रियं भवसरित्पतिपोतमध्यं संमोहकुञ्जरहरिं जगदीश्वरेन्दुम् ॥ धैर्येण मेरुसदृशं भृशमाश्वसेनिं वामाङ्गजातमुरगाङ्गमहं स्वीमि ॥४॥ क्षीराब्धिवारिकलशैर्मरुदङ्गनौधैः सुस्नापितं भवगदागदमर्कभासम् ॥ जन्मप्रवाहचितकर्मबलारिवीर
नित्यं जगज्जनविभुं प्रणमामि वीरम् ॥५॥
( शार्दूलविक्रीडितम् )
नानाकर्मरजोऽनिलं प्रकटितस्याद्वादशास्त्रामृतं सेव्यश्री जगदीशवीरममरव्यूहाभिनम्यं सदा ॥ प्राप्तज्ञानदिवाकरं सुखकरं मुक्तिप्रियाया वरं नित्यं नौमि मुनीश्वरं गणधर श्री गौतमस्वामिनम् ॥ १ ॥ सन्मान्यं सुखदायिनं ततयशोदीर्घापगं भूतल
For Private And Personal Use Only