SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३३) सत्त्वाधारो योगिनक्षत्रचन्द्रः शास्त्राब्धीन्दुर्वीतसर्वस्पृहोघः ॥ फुल्लाब्जास्यः शुद्धवैराग्यसिन्धुः शश्वजीयान्नेमिसूरिः प्रकामम् ॥२०॥ ॥शार्दूलविक्रीडितम् ॥ यस्य प्रौढतमप्रतापतपनः शश्वद्भुवि भ्राजते यस्याध्यम्बुजमातनोति भविनामानन्दभङ्गबजम् ।। यस्य ज्ञानमृगेश्वरेण परवादीभाः प्रणष्टा द्रुतं भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥२१॥ यस्याभ्रेण समं वचो नयगमस्याहादयुक्तं वरं भव्यप्रावृषिकप्रमोदमतुलं नित्यं विधत्ते भृशम् ॥ यस्यातुल्यमरं यशः क्षितितले सर्वासु दिक्षुद्गतं भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥२२॥ सेव्यश्रीगुरुराजवृद्धिविजयः प्रज्ञाः सदा यं श्रिताः सम्यग्बोधसरिच्छिलोच्चयवरः स्याहादपाथोनिधिः॥ अन्तेासिमधुव्रतश्रितपदाम्भोजः प्रशस्तक्रियो भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥२३॥ दिव्यक्षेमनिधिविशुद्धचरणो वाचंयमेशाग्रणीः । स्काराः पूर्वयुगप्रधानविधृताः सर्वे गुणा यं श्रिताः ॥ For Private And Personal Use Only
SR No.020757
Book TitleStotrabhanu
Original Sutra AuthorN/A
AuthorNandanvijay
PublisherJain Granth Prakashak Sabha
Publication Year1916
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy