________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समकलशरच्चन्द्रोद्भासाननोऽसमसौख्यदः ।। परमविमलं सिद्धिस्थानं सुशोभयिता विभुभवतु हितकृद्भव्यत्राते स आप्त उदारधीः॥२॥ शमसलिलतश्शान्तोद्दामोरुकामहुताशनः सुरपतिनताद्ध्यब्जद्वन्द्वस्सदाप्तवरो विभुः ॥ सकलजनताभद्रंकारी त्रिविष्टपनायको जयतु सततं धर्मेशानो जगजननन्दनः ॥३॥
॥ श्रीशान्तिनाथचैत्यवन्दनम् ।।
( मन्दाक्रान्ता) चन्द्रद्युत्युज्ज्वलशुचितरक्षीरसिन्धुं विशालं तृन्दछान्तिप्रवरजलधिः सौख्यरलप्रपूर्णः ॥ भीष्मज्वालं प्रभवशिखिनं यस्य शीघ्रं ददाम शश्वजीयाजिनवरवरः सोऽधिपः शान्तिनाथः॥१॥ इष्टाब्जार्णस्त्रिदशविटपो नेह दृष्टस्तथापि देवदुर्यहचनसलिलाहद्धितो धर्मरूपः ।। चित्ताभाष्टं शुभमतिमतां भव्यनृणां प्रदत्ते पादद्वन्दं शरणमसमं तस्य शान्तममास्तु ॥२॥ गाढं बद्धान् विषयजलजेऽनेकभव्यात्मभृङ्गान् मुक्तान् कृत्वा विमलदययाऽस्थापयत् सिद्धिपने॥
For Private And Personal Use Only