________________
Shri Mahavir Jain Aradhana Kendra
-X, 8]
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दोषगुणनिर्णयो नाम
दशमः परिच्छेदः
निर्दोषधर्मः पुण्याय यथा शक्तस्तथा भुवि । निर्दोषकाव्यं सत्कीर्त्यं वर्ज्यदोषानतो ब्रुवे ||१|| असमर्थं श्रुतिकटु निरर्थकमवाचकम् । च्युतसंस्कृत्यप्रयुक्तं ग्राम्यमश्लीलकं परम् ||२|| नेयार्थं क्लिष्टसंदिग्धे ततोऽप्यनुचितार्थकम् । अविमृष्टविधेयांशं विरुद्धमतिकृत्तथा ॥३॥ अप्रतीतमिति प्रोक्ताः पददोषा विशारदैः । प्रथमं लक्षणं तेषां कथ्यते क्रमतो मया ॥४॥ अङ्गीकृतार्थं यद्वक्तुं न शक्तं तत्पदं तदा । असमर्थमिति प्रोक्तं तदुदाहरणं यथा ||५|| ग्रामं भवति चैत्रोऽसौ नगरं हन्ति माधवः । दिव्यन्ति साधवो मोक्षं दयतेऽरि धराधिपः ||६||
अत्र भवति - हन्ति - दिव्यन्ति - पदानां गत्यर्थ संभवेऽपि गत्यर्थे सामर्थ्याभावात् पदत्रयसमर्थम् । दयते-पदं हिंसार्थे सामर्थ्याभावादसमर्थम्
कठिनाक्षरसंदर्भ पदं श्रुतिकटूदितम् ।
सूष्ट्रा विनिर्मिते वात्र राष्ट्रे भाति पुरं सदा ॥७॥
अत्र सूष्ट्रा राष्ट्र इति पदद्वयं श्रुतिकटु ।
पादपूरणमात्रार्थं यत् पदं प्रतिपाद्यते । तन्निरर्थकमित्युक्तं गुणदोषविशारदैः ||८||
For Private and Personal Use Only