SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ******************* तं सोऊणं सेणिअ- नरनाहो पमुइओ सचित्तंमि । रोमंचकवचिअतणू, वद्धावणियं च से देई ॥१३१९॥ इत्थंतरंमि तिहुयणभाणू सिरिवद्धमाणजिणनाहो । अइसयसिरीसणाहो, समागओ तत्थ उज्जाणे ॥१३२०॥ देवेहि समवसरणं, रइयं अच्चंतसुंदरं सारं । सिरिवद्धमाणसामी, उवविट्ठो तत्थ तिजयपहू ॥१३२१॥ गोयमपमुहेसु गणीसरेसु सक्काइएसु देवेसु । सेणिअपमुहनिवेसु अ, तहिं निविद्वेसु सन्चेसु ॥१३२२॥ सेणिअमुद्दिस्स पहू, पभणइ नरनाह ! तुज्झ चित्तंमि । नवपयमाहप्पमिणं, अइगुरुयं कुणइ अच्छरियं ॥१३२३॥ तद्वचनं श्रुत्वा श्रेणिकनरनाथः स्वचित्ते प्रमुदितो-हर्षितः, पुनः रोमाञ्चैः-रोमोद्गमैः कवचिता-कवचयुक्ता तनुः शरीरं यस्य स तथाभूतः सन् 'सें ति तस्य-तस्मै इत्यर्थः, वर्धापनिकां ददाति-यथोचितं द्रव्यं ददातीत्यर्थः ॥ १३१९ ॥ अत्रान्तरेअस्मिन्नवसरे त्रिभुवनभानुः त्रैलोक्यसूर्यः श्रीवर्द्धमानजिननाथः अतिशयश्रिया-प्रातीहार्याधतिशयलक्ष्म्या सनाथः-सहितस्तत्रोद्याने समागतः॥१३२०॥देवैः अत्यन्तसुन्दरं सारं-प्रधानं समवसरणं रचितं, तत्र-तस्मिन् समवसरणे त्रिजगत्प्रभुः श्रीवर्द्धमानस्वामी उपविष्टः॥१३२१॥ गौतमप्रमुखेषु गणीश्वरेषु-गणभृद्वरेषु शक्रादिकेषु-सौधर्मेन्द्रादिषु देवेषु चः - पुनः श्रेणिकप्रमुखेषु नृपेषुराजसु सर्वेषु तत्र - समवसरणे निविष्टेषु-उपविष्टेषु सत्सु ॥१३२२॥श्रेणिकमुद्दिश्य - श्रेणिकनृपस्य नामोच्चारं कृत्वा प्रभुःश्रीवर्द्धमानस्वामी प्रभणति-प्रकर्षेण कथयति, हे नरनाथ-हे राजन् ! इदं नवपदमाहात्म्यं तव चित्ते अतिगुरुकं महत्तरमाश्चर्य करोति ॥ १३२३ ॥ ** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy