________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**************
साहुपयविराहणया आराहणया य दुक्खसुक्खाइं । रुप्पिणिरोहिणीजीवेहिं किं नहु पत्ताइं गुरुयाइं ॥१३०९॥ दसणपयं विसुद्धं, परिपालंतीइ निच्चलमणाए । नारीइवि सुलसाए, जिणराओ कुणइ सुपसंसं ॥१३१०॥ नाणपयस्स विराहणफलंमि नाओ हवेइ मासतुसो । आराहणाफलंमी, आहरणं होइ सीलमई ॥१३११॥ चारित्तपयं तह भावओवि आराहियं सिवभवंमि । जेणं जंबुकुमारो, जाओ कयजणचमुक्कारो ॥१३१२॥ वीरमईए तह कहवि, तवपयमाराहियं सुरतरुव । जह दमयंतीइ भवे, फलियं तं तारिसफलेहिं ॥१३१३॥
साधुपदस्य विराधनया आराधनया च क्रमेण रुक्मिणीरोहिणीजीवाभ्यां गुरुकाणि-महान्ति दुःखानि सुखानि च किं न हि प्राप्तानि ?, प्राप्तान्येवेत्यर्थः ॥ १३०९ ॥ विशुद्ध-निर्मलं सम्यग्दर्शनपदं परि-सामस्त्येन पालयन्त्याः, पुनः निश्चलं मनो यस्याःसा तथा तस्या नार्या अपिसुलसाया-नागपल्या जिनराजो-वर्द्धमानः सुतरांप्रशंसां करोति ॥१३१०॥ज्ञानपदस्य विराधनाफले माषतुषः साधुआतो-दृष्टान्तो भवति, विद्यते आराधनाफले शीलवतीनाम सती आहरणं-दृष्टान्तो भवति ॥ १३११ ॥ शिवकुमारभवे भावतोऽपि चारित्रपदं तथा-तेन प्रकारेण आराधितं येन जम्बूकुमारो जातः, कीदृशः ?-कृतो जनानां-लोकानां चमत्कारो येन स तथा ॥ १३१२॥ वीरमत्या-नृपराज्या तथा-तेन प्रकारेण कथमपि तपःपदमाराधितं, यथा दमयन्त्या-नलनरेन्द्रपट्टराज्या भवे तत्तपः सुरतरुरिव-कल्पवृक्ष इव तादृशैः फलैः फलितम् ॥ १३१३ ॥
***************************
*******
For Private and Personal Use Only