________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
the
क
हा
२९३
***
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माया य मयणसुंदरिपमुहाओ राणियाओ समयंमि । सुहझाणा मरिऊणं, तत्थेव य सुरवरा जाया ॥१३००॥ तत्तो चविऊण इमे, मणुअभवं पाविऊण कयधम्मा। होहिंति पुणो देवा, एवं चत्तारि वाराओ ॥१३०१॥ सिरिपालभवाउ नवमे, भवंमि संपाविऊण मणुयत्तं । खविऊण कम्मरासिं, संपाविस्संति परमपयं ॥१३०२॥ एवं भो मगहेसर !, कहियं सिरिपालनरवरचरित्तं । सिरिसिद्धचक्कमाहप्पसंजुअं चित्तचुज्जकरं ॥ १३०३॥
माता- कमलप्रभा च पुनः मदनसुन्दरीप्रमुखा राज्ञ्यः स्वायुषोऽवसानसमये शुभध्यानान्मृत्वा तत्रैव च-नवमे देवलोके सुरवरा जाताः ॥ १३०० ॥ ततः तस्माद्देवलोकाच्युत्वा इमे - सर्वेऽपि श्रीपालादिजीवा मनुजभवं प्राप्य कृतो धर्मो यैस्ते कृतधर्माणः सन्तः पुनः देवा भविष्यन्ति, एवं चतुरो वारान् मनुष्या देवाश्च भविष्यन्ति ॥ १३०१ ॥ श्रीपालभवान्नवमे भवे मनुजत्वं मनुष्यत्वं सम्प्राप्य कर्मणां राशिं समूहं क्षपयित्वा परमपदं-मोक्षं सम्प्राप्स्यन्ति ॥ १३०२ ॥ श्रीगौतमस्वामी श्रेणिकनृपं वक्ति 'भो मगधेश्वर' - मगधाभिधदेशस्वामिन् ! एवम् अमुना प्रकारेण श्रीपालनाम्नो नरवरस्य राज्ञः चरित्रं कथितं, कीदृशं ? - श्रीसिद्धचक्रस्य यन्माहात्म्यं तेन संयुतं युक्तं, पुनः लोकानां चित्तेषु चोयम् आश्चर्यं करोतीति चित्तचोद्यकरम् ॥ १३०३ ॥
For Private and Personal Use Only
*
************