________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*********
************
*
****
तत्तो माउलयनिवो, अणेगनरनाहसंजुओ कुमरं । सिरिसिरिपालं थप्पड़, रज्जे अभिसेअविहिपुव्वं ॥८९७॥ सिंहासणे निविट्ठो, वरहारकिरीडकुंडलाहरणो । वरचमरछत्तपमुहेहिं रायचिन्हेहिं कयसोहो ॥८९८॥ सिरिसिरिपालो राया, नरवरसामंतमंतिपमुहेहिं । पणमिज्जइ बहुहयगयमणिमुत्तियपाहुडकरेहिं ॥८९९॥ पवहणसिरीसमेओ, असंखचउरंगसिन्नपरिकरिओ। चल्लइ सिरिपालनिवो, निअजणणीपायनमणत्थं ॥९००॥
ततः-तदनन्तरं मातुलकनृपोऽनेकै-बहुभिर्नरनाथै-राजभिः सहितःश्रीश्रीपालं कुमारमभिषेकविधिपूर्वराज्ये स्थापयति, अभिषेको-राज्याभिषेकस्तस्य यो विधिः तत्पूर्वकमित्यर्थः॥८९७॥अथ राज्याभिषेकानन्तरं यादृशो राजा जातस्तादृशमाहसिंहासने निविष्ट-उपविष्टः, पुनर्वराणि-प्रधानानिहारकिरीटकुण्डलाभरणानि यस्य सः,किरीटं-मुकुटं, पुनः वरैचामरच्छत्रप्रमुखै राजचिनैः कृता शोभा यस्य स तथोक्तः ॥ ८९८ ॥ एवम्भूतः श्रीश्रीपालो राजा नरवरसामन्तमन्त्रिप्रमुखैः प्रणम्यतेनमस्क्रियते, कीदृशैः नरवराद्यैः ?- बहवो हया-अश्वा गजा-हस्तिनो मणयो-वैडूर्याद्या मौक्तिकानि-मुक्ताफलानि तान्येव प्राभृतानि-दौकितानि करेषु-हस्तेषु येषां ते तैस्तथोक्तैः॥८९९॥प्रवहणानां-यानपात्राणां या श्रीः-लक्ष्मीस्तया समेतः-सहितः पुनर्न विद्यते सङ्ख्या यस्य तत् असख्यं यच्चतुरङ्गं-हस्त्यश्वरथपत्तिरूपं सैन्यं तेन परिकरितः-परिवृतः, परिकलित इति पाठान्तरं, तेन युक्त इत्यर्थः, ईदृशः श्रीपालनृपो निजजनन्याः-स्वमातुः पादयोः-चरणयोर्नमनार्थं चलति-गच्छति ॥९००॥
**************
****
For Private and Personal Use Only