________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*************************
सोवि हु जइ होइ अणेण चेव कुमरेण गुरुपभावेणं । नो अन्नेणं केणवि, होही सो निच्छओ एसो ॥८८८॥ एवं कहिऊण निअट्टियस्स भट्टस्स कुंडलं दाउं । कुमरोऽवि सपरिवारो, निवदत्तावासमणुपत्तो ॥८८९॥ तत्थ ठिओ तं रयणिं, रमणीगणरमणरंगरसवसओ । पच्चूसे पुण पत्तो, कुल्लागपुरे तहच्चेव ॥ ८९०॥ उवविद्वे य नरिदे, मिलिए लोए अ कुमरिदिट्ठीए । कुमरेण कओ राहावेहो हारप्पभावेणं ॥ ८९१॥ वरिओ तीए जयसुंदरीए कुमरो पमोयपुन्नाए । नरनाहोऽवि हु महया, महेण कारेइ वीवाहं ॥ ८९२ ॥
हु इति निश्चये, स राधावेधोऽपि यदि भवति तर्हि अनेनैव कुमारेण भविष्यति, कीदृशेन ?-गुरुप्रभावेण-गुरुः महान् प्रभावो यस्य स तेनेति, स राधावेधोऽन्येन केनापिपुरुषेण नो भविष्यति, एष निश्चयोऽस्ति॥८८८॥एवं कथयित्वा निवृत्ताय भट्टाय कुण्डलं दत्त्वा कुमारोऽपि सपरिवारः-स्त्र्यादिपरिवारसहितो नृपेण-राज्ञा दत्तमावासं-मन्दिरमनुप्राप्तः ॥ ८८९ ॥ रमणीनां -स्त्रीणां यो गणः-समूहस्तेन सह यत् रमणं तत्र यो रङ्गो-रागः अनुरक्तत्वमिति यावत् स एव रसः स्वादस्तस्य वशात् तां रजनी-रात्रिं तत्रावासे स्थितः, प्रत्यूषे-प्रभाते पुनस्तथैव-तेनैव प्रकारेण हारप्रभावेणेत्यर्थः कुल्लागपुरे प्राप्तः ॥ ८९० ॥ नरेन्द्रे-राज्ञि च उपविष्टे सति लोके च सर्वस्मिन् मिलिते सति, द्वौ चकारौ तुल्यकालं सूचयतः, कुमारेण श्रीपालेन कुमार्य्याः-कन्याया दृष्टौ-लोचनाग्रे हारप्रभावेण राधावेधः कृतः॥८९१॥ तया जयसुन्द- प्रमोदेन-हर्षेण पूर्णया-भृतया सत्या कुमारो वृतः, नरनाथो-राजापि च महता महेन-उत्सवेन वीवाहं कारयति ॥ ८९२॥
*-*-*-*-*-*-*-**************
For Private and Personal Use Only