________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**************************
एवं वदन्नेव स सिद्धचक्रा-धिष्ठायकः श्रीविमलेशदेवः । कुमारकण्ठे विनिवेश्य हारं, जगाम धामाद्भुतमात्मधाम ॥ तं लभ्रूण कुमारो, निच्चितो सुत्तओ अह पभाए । उटुंतोऽवि हु कुंडलपुरगमणं निअमणे कुणइ ॥७७६॥ हारपभावेणं कयवामणरूवो गओ पुरे तत्थ । पासइ वीणाहत्थे, रायकुमारे ससिंगारे ॥७७७॥ कुमरो वामणरूवो, रायकुमारेहिं सह गओ तत्थ । जत्थऽस्थि उवज्झाओ वीणासत्थाई पाढंतो ॥७७८॥ जह जह उवझायं पइ, वामणओ कहइ मंऽपि पाढेह । तह तह रायकुमारा, हसंति सब्वे हडहडत्ति ॥७७९॥
स सिद्धचक्रस्याधिष्ठायकः श्रीविमलेशदेवो-विमलेश्वरनामा सुरः एवम्-उक्तप्रकारेण बदन-ब्रुवन् एव कुमारस्य कण्ठे हारं विनिवेश्य-स्थापयित्वा आत्मनः-स्वस्य धाम-गृह स्वर्गमित्यर्थः जगाम-गतवान्, कीदृशमात्मधाम ? धाम्नातेजसाऽद्भुतं धामाद्भुतम् ॥७७५॥ कुमारस्तं हारं लब्ध्वा-प्राप्य निश्चिन्तः-चिन्तारहितः सुप्तः, अथ प्रभाते उत्तिष्ठनैव निजमनसि-स्वचित्ते कुण्डलपुरगमनं करोति ॥७७६॥ हारप्रभावेण कृतं वामनरूपं येन स एवंविधः कुमारस्तत्र पुरे गतः सन् वीणा हस्तेषु येषां ते वीणाहस्तास्तान, पुनः सह शृङ्गारेण वर्तन्ते इति सशृङ्गारास्तान राजकुमारान् पश्यति ॥७७७॥ कुमारो वामनरूपः सन् अन्य राजकुमारैः सह तत्र गतः यत्र वीणाशास्त्राणि पाठयन् उपाध्यायोऽस्ति ॥७७८॥ अथ वामनको यथा यथा उपाध्यायं प्रति कथयति, किमित्याह- मामपि. पाठयतेति, तथा तथा सर्वे राजकुमारा हडहड इति हसन्ति ॥७७९॥
******************
******
For Private and Personal Use Only