________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्च्योतन्मदाविल-विलोल कपोलमूल मत्तभ्रमद्-भ्रमरनाद-विवृद्धकोपम् । ऐरावताभ-मिभमुद्धतमापतन्तं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् भिन्नेभ- कुम्भ-गलदुज्ज्वल-शोणिताक्त मुक्ताफल प्रकर-भूषित-भूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचल-संश्रितं ते कल्पान्त-काल-पवनोद्धत-वह्निकल्पं दावानलं ज्वलितमुज्ज्वल-मुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नामकीर्त्तनजलं शमयत्यशेषम् रक्तेक्षणं समद कोकिल-कण्ठ-नीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्कस्त्वन्नाम-नागदमनी हृदि यस्य पुंसः वल्गत्तुरङ्ग-गजगर्जित-भीमनादमाजौ बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकर-मयूख-शिखापविद्धं त्वत्कीर्तनात् तम इवाशु भिदामुपैति कुन्ताग्र- भिन्न- गज-शोणित- वारिवाहवेगावतार-तरणातुर योध- भीमे ।
१६१
For Private and Personal Use Only
।।३४।।
||३५||
||३६||
।। ३७ ।।
113611