________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||१||
।।२।।
| श्री भक्तामर-स्तोत्रम् | भक्तामर-प्रणत-मौलि-मणिप्रभाणामुद्योतकं दलित-पाप-तमोवितानम् । सम्यक् प्रणम्य जिन-पादयुगं युगादावालम्बनं भवजले पततां जनानाम् यः संस्तुतः सकल-वाङ्मय तत्त्वबोधादुद्भूत-बुद्धि-पटुभिः सुरलोक-नाथैः । स्तोत्रै जगत्रितय-चित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् बुद्ध्या विनाऽपि विबुधार्चित-पादपीठ! स्तोतुं समुद्यत-मति विगत-त्रपोऽहम् । बालं विहाय जल-संस्थितमिन्दु-बिम्बमन्यः क इच्छति जनः सहसा ग्रहीतुम् वक्तुं गुणान् गुणसमुद्र! शशाङ्क-कान्तान् कस्ते क्षमः सुरगुरु-प्रतिमोऽपि बुद्ध्या । कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् सोऽहं तथापि तव भक्तिवशान्मुनीश! कर्तुं स्तवं विगत-शक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र नाभ्येति किं निजशिशोः परिपालनार्थम् अल्पश्रुतं श्रुतवतां परिहास-धाम
||३||
1४11
|५||
१५५
For Private and Personal Use Only