________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
श्री सिद्धचक्र महापूजन विधि अर्हदादयो भगवन्तो मयि प्रसन्ना भवन्तु भवन्तु। श्रीसिद्धचक्राधिष्ठायकदेवा देव्यो नाग-यक्ष-गण-गन्धर्व-वीर-ग्रहलोकपालाश्च सानुकूला भवन्तु भवन्तु। समस्तसाधु-साध्वी-श्रावक-श्राविकाणां राजाऽ-मात्य-पुरोहितसामन्त-श्रेष्ठिसार्थवाहप्रभृति-समग्रलोकानां च स्वस्ति-शिव-शान्तितुष्टि-पुष्टि-श्रेयः-समृद्धि-वृद्धयो भवन्तु भवन्तु। चौरारि-मारिरोगोत्पातानीति-दुर्भिक्ष-डमर-विग्रह-ग्रह-भूत-प्रेत-पिशाच-मुद्गलशाकिनीप्रभृतिदोषाः प्रशाम्यन्तु।। राजा विजयी भवतु भवतु । प्रजास्वास्थ्यं भवतु भवतु । श्रीसङ्घो विजयी भवतु भवतु। ॐ स्वाहा ॐ स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा। शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः। दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ।।१।। सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ।।२।।
।।इति शान्तिदण्डकः।। ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनञ्च यत् कृतम्। तत् सर्वं कृपया देवाः, क्षमन्तु परमेश्वराः ।।१।। आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर!।।२।।
For Private And Personal Use Only