________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री सिद्धचक्र महापूजन विधि यन्नैमित्तं वरिष्ठं विपदि हृदि धृतं सज्जनानां च नित्यं, तद् दत्तं यस्य बाहौ रिपुकुलमथनं सिद्धचक्रं नमामि ।।३।। यच्छद्धं व्योमबीजं यध उपरि यतं रायान्तसिद्धाक्षरेण, यत्सन्धो तत्त्वयुक्तं स्वरपरमपदैर्वेष्टितं मध्यबीजम् ।। यत् सीमन्तं निरतं विगतकलिमलं मायया वेष्टिताङ्ग, जीयात् तत् सिद्धचक्रं विमलवरगुणं देव नागेन्द्रवन्धम् ।।४।। यद् वश्यादिककारकं बहुविधं कामार्थिनां कामदम्, यल्लक्षाधिकजापसिद्धविमलं सत्सम्पदा दायकम् ।। यत् कुष्ठादिकदुष्टदोषदलनं दुःखाभिभूतात्मनाम्, यत् तत्त्वैकफलप्रदं विजयतां श्रीसिद्धचक्रं भुवि ।।५।। ऊर्ध्वाधोरेफयुक्तं गगनमुपहतं बिन्दुनाऽनाहतेन, ह्रींकारेण प्रकृष्टं स्वरसुगुरुपदैर्वेष्टितं बाह्यदेशे।। पद्म वर्गाष्टकाङ्क दलमुखविवरेऽनाहताढ्यं तदित्थं, ह्रींकारेण त्रिवेष्टं कलशवलयितं सिद्धिदं सिद्धचक्रम् ।।६।। व्योमोधोरयुक्तं शिरसि च विलसन् नादबिन्द्वर्धचन्द्रम्, स्वाहान्तौंकारपूर्वैर्गुरुभिरभिवृतं सस्वरं चाष्टवर्गम् ।। अन्तस्थानाहतश्रीगणधरवलयालङ्कृतं ध्यानसाध्यं वन्दे श्रीसिद्धचक्रं सुरगणमहितं मायया त्रिपरीतम् ।।७।। यत् सर्वाङ्गिहितं मनुष्यमहितं सौख्यालयं धर्मिणाम्, यद् दोषैः परिवर्जितं सुगदितं ध्यानाधिरूढाङ्कितम् ।। यत् कर्मक्षयकारकं सुधवलं मन्त्राधिपाधिष्ठतम्, तन्नः पातु वरं भवाब्धिशमनं श्रीसिद्धचक्रं सदा ।।८।।
For Private And Personal Use Only