________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
13
श्री सिद्धचक्र महापूजन विधि मन्त्रमहोदधिममलं, स्तुत्या प्रणिपत्य सिद्धचक्राह्यम्। तद्यन्त्रस्यैव विधि, गणधररचितस्य वक्ष्येऽहम् ।।१।। ऊष्माक्षरं चतुर्थं, सप्तमवर्गद्वितीयवर्णेन। अध उपरि यदाक्रान्तं, सबिन्दुसकलं सदा ध्येयम् ।।२।। प्रणवादिबीजवर्ण-स्तत्तत्त्वं वलयितं समीपस्थम् । पञ्चनमस्कृत्यैतत्, सत्साधकसिद्धिदं वन्दे ।।३।। प्रथमेऽथ ततो वलये, प्रसिद्धपरमेष्ठिमन्त्रपदतत्त्वम् । प्रत्येकं प्रणवाद्यं, ध्यायककल्पद्रुमं नौमि ।।४।। प्रणौमि द्वितीयवलये, श्रीगणधरसेवितं प्रभुत्वकरम् । पञ्चविधं स्वाचारं, सम्यग्ज्ञानाय नम आद्यम् ।।५।। षोडश विद्यादेवी-स्तृतीयवलये स्मरामि वर्णमिषात् । पद्म बहिरष्टदलं, दलान्तरेष्वष्टवर्गाश्च ।।६।। अष्टसु दलेषु बीजा-क्षराण्यनाहतप्रवर्तीनि। वर्गाश्च मातृकाया, ध्यायामोऽनाहतं चान्ते ।।७।। अथ रेखात्रयवृत्तं, तत्परिधौ चक्रमानम ॐ ह्रीं। अर्हत्-सिद्धगुरूणां, तथा च परमगुरोः सुकल्याणी ।।८।। अदृष्टानन्तयोर्गुर्वो-रनन्तानन्तसद्गुरोः। गणभृसिद्धचक्रस्य, सबीजानाहतपादुकाः ।।९।। तस्मादथ रेखाद्वय-वृत्तं कलशानुकारि सद्यन्त्रम्। . तन्मूले ग्रहनवकं, विघ्नहरं भव्यसत्त्वानाम् ।।१०।। कुम्भस्य च स्थितान् कण्ठे, चिन्तयामि निधीन नव । दिक्पालान् बहिरिन्द्राद्यान्, स्वस्वस्थानस्थितान् मुदे ।।११।।
For Private And Personal Use Only