________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री सिद्धचक्र महापूजन विधि एवमुच्चैःस्वरं जल्प-ननल्पाकल्पधारिणाम् । तपोविधातृबन्धूनां, करे यच्छति मालिकाः ।।२१।। ते चार्हन्तं नमस्कृत्य, सानन्दं स्वकरैः सजः । स्वस्वसम्बन्धिनां कण्ठे, क्षिपन्ति समहोत्सवम् ।।२२ । । ततश्चेन्द्रेण पीठाग्रे, कृते मङ्गलदीपके। शक्रस्तवादिकं कृत्वा, श्रोतव्या गुरुदेशना ।।२३।। गीतनृत्यादिकं कृत्वा, दत्त्वा दानं स्वशक्तित:। सोत्सवं च गृहे गत्वा, कार्यं सङ्घार्चनादिकम् ।।२४ ।। ।।इति श्रीसिद्धचक्रतपोविधानोद्यापनचतुर्विंशतिका ।।२।।
। चोवीशी त्रीजी।। एवं श्रीसिद्धचक्रस्या-राधको विधिसाधकः। सिद्धाख्योऽसौ महामन्त्र-यन्त्रः प्राप्नोति वाञ्छितम् ।।१।। धनार्थी धनमाप्नोति, पदार्थी लभते पदम् । भार्यार्थी लभते भार्यां, पुत्रार्थी लभते सुतान् ।।२।। सौभाग्यार्थी च सौभाग्यं, गौरवार्थी च गौरवम् । राज्यार्थी च महाराज्यं, लभतेऽस्यैव तुष्टितः ।।३।। एतत्तपोविधातारः, पुमांसः स्युर्महर्द्धयः । सुर-खेचर-राजानो, रूपसौभाग्यशालिनः ।।४।। अस्य प्रभावतो घोरं, विषं च विषमज्वरम् । दृष्टं कुष्टं क्षय क्षिप्रं. प्रशाम्यति न संशयः ।।५।।
For Private And Personal Use Only