________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ सद्गुरुवर्यश्रीचेतनानन्दप्रशस्तिः ॥
चिदेव सर्व चिति मासमानं चितो विभिन्न नहि किञ्चिदस्ति ॥समस्तलोकानिति बोधयन्तं तं चेतनानन्वगुरुं भजेऽहम् ॥१॥ आनन्दमानन्दकर प्रमोद मोदप्रद सौख्यमयं सुतोषम् ॥ अद्वैतमाद्यन्तविहीनमेकं तं चेतनानन्दगुरुं भजेऽहम् ॥२॥ सदयहृदयकान्तं पूज्यमानं सुसभ्यग्रंथितललितपयैर्वर्ण्यमानं कवीन्द्रैः ।। भुवि वितरणलक्ष्मी प्रीतिपूर्व वधानं परमगुरुमहं तं चेतनानन्दमीडे॥३॥ मुखकमलसुधांशोक्सुिधा प्रस्रवन्तं जनहितशुभकार्योत्तारणामस्थितं यम् ॥ निजगुणगणकीर्त्यान्तर्गतं सज्जनानां परमगुरुमहं तं चेतनानन्दमीडे॥४॥ ददतमतिसहायं दीनगीर्वाणवाण्यां स्वयमतिशयहर्षादुत्सुकेभ्यः शिशुभ्यः ॥ सविनयनयदात्रीमार्यवाचं वहन्तं परमगुरुमहं तं चेतनानन्दमीडे ॥ ५॥ सततममरवाणीशोभिविद्वज्जनानां स गुरुरिव सुराणां
शोभमानः समायाम् ॥ निजनिकटगताँस्तान्सत्पथे योजयन्तं परमगुरुमहं तं चेतनानन्दमीडे॥६॥ अतिशयमीर्वाणविद्याभूषण शास्त्री चपलानामिन्द्रियाख्याधराणामचपलमतिदुर्ग दुर्जयानामरीणाम् ॥ नगवदचलचित्तं सत्यमात्रैकनिष्ठं परमगुरुदुर्गाशङ्कर उमाशङ्कर शर्मा. महं तं चेतनानन्दमीडे॥७॥ प्रबलगुणगणानामेकपात्रं धरायां प्रशमितदुरिताना भाजनं मङ्गलानाम् ॥ जगति निखिलजन्तुश्रेयसे यत्नवन्तं परमगुरुमहं तं चेतनानन्दमीडे॥८॥ सततमभिसरन्तं सत्पथे नीतियुक्तं हरचरणसरोजे सर्वदेवैकचित्तम् ॥ सुकविरचितकाव्योपानमध्ये बसन्तं परमगुरुमहं तं चेतनानन्दमीडे॥९॥ यस्मादाप्ता विद्याऽज्ञानतमोनाशिनी मया शिष्टात् ॥ दुर्गाशङ्करनामा तस्याजगनिसरोरुहं यह नौमि ॥ १०॥ इति सद्गुरुवर्यश्रीचेतनानन्दप्रशस्तिः ।।
For Private and Personal Use Only