________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
॥४४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यन्तरज्योतिष्कवैमानिकाद्याः । चशब्दस्तद्गतायुर्देहादिवक्तव्यतासंसूचकः । तथा देवलोकाश्च देवानां सुरादीनां लोका- आश्रयविशेषा देवलोकाः । सिद्धाः निष्ठिता इत्यर्थः । तथा निरयेषु भवा नैरयिकास्ते च नरकनरकावासायुहदुःखादिभिश्चिन्त्यन्ते । तथेति समुच्चये ॥९१॥
जं एमाई पयत्था, आगमेण वियाणइ ।
उज्झित्ता सव्ववावारं, तओ य तं निसामए ॥ ९२ ॥
अन्नं च जीवाईणं, कुणई सद्दहणं तहा ।
ससंकियाण अत्याणं, कुज्जा पुच्छं विअक्खणो ॥ ९३ ॥
व्याख्या-`जं एमाइ० ́ यद्-यस्मात् कारणादेवमादीन् पदार्था (न्)- द्रव्यविशेषानागमेन विजानाति, जन्तुरिति शेषः । उज्झित्तेत्यादि, ततश्च तस्माद्धेतोः सर्वव्यापारमन्यत्र मनोवाक्कायनिवेशमयमुज्झित्वा तमागमं निशामयतिश्रृणोतीति ॥९२॥
अन्यच्चागममाकर्णयन् जीवादीनां नवपदार्थानां तथा यथा सूत्रे ऽभिहितानां श्रद्धानं अवितथमेतदिति प्रत्ययरूपं करोति, ते चामी- सर्वजीवाश्चैतन्येनैकधा, त्रसस्थावरभेदाभ्यां द्विधा, वेदैस्त्रिधा गतिभिश्चतुर्धा, इन्द्रियैः पञ्चधा, कायैः षड्विधा, भ्वादिपञ्चस्थावरद्वित्रिचतुःपञ्चेन्द्रियभेदैर्नवधा । सूक्ष्म १ बादर २ द्वि ३ त्रि. ४ चतुः ५ असंज्ञि पञ्चेन्द्रिय ६ संज्ञिपञ्चेन्द्रिय ७ अपर्याप्तपर्याप्तभेदाभ्यां चतुर्दशधा । सूक्ष्मबादररूपा भू जल २ अनल ३ पवनानन्त
For Private and Personal Use Only
सूत्रम्
॥४४॥