________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 11411
www.kobatirth.org
अब्बंभे पुण विरई, मोहदुगंछा २४ सतत्तचिंता य । इत्थीकडेवराणं २५, तव्विरएसुं च बहुमाणो २६ ॥६॥ बाहगदोसविवक्खे २७, धम्मायरिए य उज्जुयविहारे २८ । एसो दिणकिच्चस्स उ, पिंडत्थो से समासेणं ||७|| || दारगाहाओ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'नम०' नमस्कारेण विबोधो निद्रापगमः, श्रावकेण कार्य इति सर्वत्र गम्यम् १ | 'अणु०' नमस्कारपरावर्तनादनु-पश्चात्स्मरणं श्रावकोऽहमस्मीत्यादि २ । 'व०' व्रतान्यणुव्रतादीनि मे कति सन्तीत्यादि ३ । 'जोगो 'त्ति, अत्र तावच्चतुर्वर्गाग्रणीर्मोक्षस्तस्यावन्ध्यकारणं सम्यग्ज्ञानदर्शनचारित्ररूपं रत्नत्रयं योगस्तस्य च सर्वातिचारविशोधकत्वेन षड्विधावश्यकं कारणमित्युपचारात् तदपि योगः, इहैवाग्रे एतद्द्वारं विवृण्वता सूत्रकृताऽस्यैव सूचयिष्यमाणत्वाद् ४ । 'चिइवंदणमो 'त्ति, चैत्यवन्दनं द्रव्यभावपूजारूपम् । ओ इति निपातः पूरणार्थ: ५ । 'पच्चक्खाणं०' प्रत्याख्यानं नमस्कारसहितादि । विधिपूर्वं सूत्रोक्तविधिना नमस्कारपठनादिकं सर्वमेतत्कर्तव्यम् ६ ||२||
व्याख्या- 'तह चे० ' तथाशब्दो विधिपूर्वकमित्यस्यानुकर्षणार्थ: । 'चेइह०' जिनभवनव्रजनविधिः ७ । 'स०' सत्कारो- माल्यादिभिरर्चनमर्हद्विम्बानामिति गम्यते ८ । तेषामेव प्रसिद्धचैत्यवन्दनविधिना नमस्करणम् ९ । 'गुरुस ० ' ततो गुरुसमीपे प्रत्याख्यानं, स्वयं गृहादिगृहीतप्रत्याख्यानस्य गुरुसाक्षिकविधानमित्यर्थः १० | 'सवणं० ' श्रवणमागमस्येति ११ । 'जइ०' यतिपृच्छा- साधुशरीरसुखवार्तापृच्छनम् । एवं हि विनयः प्रयुक्तो भवति १२ । 'उचिअ० '
For Private and Personal Use Only
सूत्रम्
11411