________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ॥२॥
www.kobatirth.org
सुसंवृतवचनस्य सुप्रणिहितगात्रस्य जिनादीन्नमस्कुर्वतः ४ । तत्र विघ्नव्रातोपशान्तये ऐकान्तिकाव्यभिचारिभावमङ्गलरूपेण तुर्यनमस्कारेण प्रणम्येति भावः । कीदृशं वीरम् ? 'तिलो० ' त्रिलोकीस्थितधर्मास्तिकायादिद्रव्यसमूहस्य युगपत्संशयोच्छेदकत्वेनोद्योतकत्वात् भानुरिव त्रैलोक्यभानुस्त्रिभुवनभास्करस्तम् । एतदेव भावयति 'विशुद्धज्ञानं', विशुद्धं सकलज्ञानावरणक्षयोत्पन्नत्वाद्वितिमिरं ज्ञानं केवलाख्यं यस्य तम् । पुनः कीदृशम् ? 'सुमहानि०' तत्रेतरनिधानापेक्षयाऽक्षय्यत्वेन महच्च तन्निधानं च महानिधानं नैसर्पादिरूपं, तस्मादपि भव्यसत्त्वानां दुर्गदौर्गत्यदुःखदारिद्र्योच्छेदकत्वेन सुगतिसुखसम्पत्सम्पादकत्वेन च सुष्टु-सर्वातिशायि महानिधानम् । एवं च श्रीमहावीरस्य सुमहानिधानत्वेऽयं सम्प्रदायः- एकदा श्रीवीरः श्वेताम्बी नगरीं व्रजन् गोपालैर्वारितोऽपि कनकखलाख्यतापसाश्रमे मण्डूकीहन्तृतपस्वि १ ज्योतिष्क २ कनकखलाख्यतापसाश्रमस्थकुलपतिसुतकौशिककुलपति ३ चण्डकौशिककुलपतिजीवष्टिविषचण्ड-कौशिकसर्पप्रतिबोधनार्थं तत्रागतः । स स्वामिदर्शनेन जातजातिस्मृतिरनशनं गृहीत्वा सहस्रारे सुरोऽभूत् ।' इति कुगतिदौर्गत्यदलनात्सुखसम्पत्तिकरणान्महानिधिः । वीरपदेनापायापगमातिशयः १ । त्रैलाक्यमानुरित्यनेन वचनातिशयः २ । विशुद्धज्ञानमित्यनेन ज्ञानातिशयः ३ । सुमहानिधानमित्यनेन पूजातिशयः ४ । तमेवं गुणविशिष्टं वीरं नत्वा वक्ष्ये, श्राद्धाः श्रावकास्तेषां स्वरूपमिदम्
श्रद्धालुतां श्राति जिनेन्द्रशासने, धनानि पात्रेषु वपत्यनारतम् । करोति पुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमाहुरुत्तमाः ||१||
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूत्रम्
॥२॥