________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
1196811
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'नीरनाह०' अप्रमत्तत्वे सत्यपि कश्चिद् गाम्भीर्यविकलः स्यादतो नीरनाथ इव गम्भीरः परवादिभिरलब्धमध्यत्वात्, परालोचितगुह्यजलानुल्लोठनाच्चागाधहृदयः । गम्भीरो न सर्वोऽपि निःप्रकम्पः स्यादतो मेरुरिव निःप्रकम्पः परीषहोपसर्गोपनिपाते धर्मध्यानाचलनात् । किमित्येवं निःप्रकम्पोऽत आह- सिंह इव निर्भयो यस्तु, एतदेव विशेषेणाह- सप्तभयवर्जितः । तत्रेहलोकभयं यन्मनुष्यो मनुष्याद् बिभेति । परलोकभयं यद्देवाद् बिभेति । आदानभयं यद्वनार्थं चौरादिभ्यः २ । अकस्माद्भयं गृहाभ्यन्तरे रात्र्यादौ बिभेति । आजीविकामरणाकीर्तिभयानि प्रतीतानि ||३३१|| सर्वगुणसंग्रहार्थमाह
छत्तीसगुणगणोवेओ, धम्माहम्मवियाणओ ।
अहम्माओ नियत्तेइ, धम्ममग्गमि लाई ||३३२॥
व्याख्या- 'छत्तीसगुण०' षड्भिरधिका त्रिंशत् षत्रिंशद्, षट्त्रिंशच्च ते गुणाश्च षट्त्रिंशद्गुणास्तेषां गणःसमूहः षट्त्रिंशत्षट्त्रिंशतिकारूपस्तेनोपेतः संयुक्तः षट्त्रिंशद्गुणगणोपेतः । तद्विस्तरस्तु सूरिगुणषट्त्रिंशिकातोऽवसेयः । साम्प्रतं तस्यैव सर्वगुणेष्वाद्यं गुणमाह- धर्माधर्मौ प्रतीतौ । विशेषेण ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च जानातीति धर्माधर्मविज्ञायकः । एतद्गुणोपादाने कारणमाह- अहम्मेत्यादि स्पष्टम् ||३३२|| ईदृग्रेर्दुर्लभत्वप्रतिपादनपुरस्सरं स्वपरोपकारकत्वमावेदयन्नाह
For Private and Personal Use Only
सूत्रम्
1196811