________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 1196811
www.kobatirth.org
गुणमाह
'छेओ मेओ वसणं' आयासकिलेसभयविवाओ य । मरणं धम्मब्भंसो, अरई अत्थाउ सव्वाई ||१|| तं विवर्जयतीति योगः ॥ ३२६ ॥ हिरण्यादीनि कानिचिन्नामग्राहमाह
हिरन्नं च सुवन्नं च, कंसं संखं पवालयं ।
धणं धन्नं कलत्तं च, जो विवज्जेइ सव्वहा ॥ ३२७॥
व्याख्या-'हिरन्नं च०' स्पष्टा । हिरण्यं रजतं सव्वहत्ति योगत्रिककरणत्रिककालत्रिकेणेति ॥ ३२७॥ षष्ठमूल
Acharya Shri Kailassagarsuri Gyanmandir
'राईभोयणाओ य जो विरत्तो महायसो ।
संनिही संचयं जो उ, न करेइ न कयाइवि ॥३२८॥'
व्याख्या- 'राईभोयणा०' रात्रेर्भोजनाच्च यो विरक्तो- निवृत्तो महायशा:- सुसाधुत्वेन व्याख्यातकीर्त्तिः । तद्रात्रिभोजनं चतुर्धा, द्रव्यतोऽशनपानखाद्यस्वाद्यरूपाहारेषु लिम्बपत्राद्यनाहारेषु च १ । क्षेत्रतोऽर्धतृतीयद्वीपसमुद्रेषु २ । कालतो दिवा गृहीतं दिवा भुक्तं १ । दिवा गृहीतं रात्रौ भुक्तं २ । रात्रौ गृहीतं दिवा भुक्तं ३ । रात्रौ गृहीतं रात्रौ भुक्तं ४ । भावतस्तिक्तकटुकषायाम्लमधुरलवणरसेषु । आह-दिवागृहीतदिवाभुक्तभङ्गके रात्रेरभावान्न वर्जनीय इति, तत्परिहारं सूत्रेणैव दर्शयति- 'संनिही ' इत्यादि, सन्निधेर्मोदकखर्जूरादेः प्रत्यूषितस्य संचयो धारणं, तं यस्तु न करोति, कदाचिदपि दुर्भिक्षादावपि । यदार्षम्
For Private and Personal Use Only
सूत्रम्
1190811