________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्रम्
श्राद्धदिन० ||१७४||
TTTTTTTTTTTTTTTTTT roodoodoodoodoodoodoocoockoodoodoodoodoodoodoodoodoodoodoodoodoodboob
रादत्तमनेषणीयाधुपभोगः, गुर्वदत्तं गुरूणामनिवेदितान्नादेः परिभोगः । एतच्च द्रव्यतो ग्रहणधारणार्हद्रव्यविषयं, क्षेत्रतो ग्रामादिषु, कालतो भावतो भङ्गकाश्च प्राग्वदिति ३ ॥३२५||
बंभं तु धारए जो उ, नवगुत्तीसणाहयं ।
परिग्गहं विवज्जेइ, असमंजसकारयं ||३२६।। व्याख्या-'बंभं तु०' ब्रह्मचर्यं पुनर्धारयति नवगुप्तिसनार्थ-नवगुप्तिसहितमित्यर्थः । तत्र ब्रह्माष्टादशविधम्, यदक्तम्-दिव्यात्कामरतिसुखात्, त्रिविधं त्रिविधेन विरतिरिति नवकं । औदारिकादपि तथा, तद् ब्रह्माष्टादशविकल्पम् । एतच्च द्रव्यतो रूपेषु रूपसहगतेषु च । तत्र रूपाणि निर्जीवानि प्रतिमारूपाणि, अविभूषणानि वा है। स्त्र्यादिशरीराणि । रूपसहगतानि सजीवानि स्त्रीपुरुषशरीराणि सभूषणानि वा । क्षेत्रतः त्रिष्वपि लोकेषु । कालतो भावतो भङ्गकाश्च पूर्ववदिति । गुप्तयस्तु. .
'वसहिकहनिसिजिदियकुड्डंतरपुबकीलियपणीए । अइमायाहारविभूसणा य, नवबंभचेरगुत्तीओ ।।१।।'
ब्रह्मचारिणा तद् गुप्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, तत्सेवने तद्बाधासंभवात् १। तथा न स्त्रीणां केवलानामेकाकिना धर्मदेशनालक्षणवाक्यप्रबन्धरूपा कथा कथनीया । अथवा जात्यादिकास्ताश्च प्रागुक्ताः २ । निषद्या स्त्रीभिः सहकासने न निषीदेत् ३ । उत्थितायामप्यन्तर्मुहूर्तमात्रं तद्वर्जयेत् । तदुपभुक्तासनस्य चित्तविकारहेतुत्वात् । आह
||१७४||
ექიმმა
For Private and Personal Use Only