________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||१६५||
FTTTTTT
असुइमुत्तमलप्पवाहरूवयं, वंतपित्तवसमज्जपुष्फसं ।
मेयमंसलबहहड्डकरंडयं, चंममित्तपच्छाइय जुवइअङ्गय ||३१३।।
'असुइमुत्तमल०' अशुचि-विट्, मूत्रं- प्रश्रवणम् , मल:- सर्वशरीरसम्भवः, तेषां प्रवाहः- सन्ततश्रोत एव रूपं यस्याः तत्तथा । वान्तं- छर्दिः । पित्तं- पित्तधातुः । वसं- मांसजः स्नेहरसः । मज्जा- अस्थ्यन्तर्वर्तिशुक्रकृद्धातुविशेषः । पुष्पसो वामकुक्ष्यन्तर्वर्ती रक्तफेनजो विकारविशेषः । एते यत्र सन्ति तत्तथा । मेदो-ऽस्थिधातुविशेषः । मांसं पिशितम् । बहवस्थीनि-कीकशानि । तेषां करण्डकम् । अन्तरेवं स्वरूपमपि युवत्या अङ्गकं-कुत्सितमङ्ग चर्ममात्रप्रच्छादितं सदविवेकिनां रम्यमाभाति । तदुक्तम्
'मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम्, स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ । सकृन्मूत्राधारं वरकरिशिरःस्पर्धि जघनम्, महानिन्धं रूपं कविजनविशेषैर्गुरुकृतम् ।।१।।' एवं च कुविकल्पाकुलितचेता अन्धादपि विशिष्यते । यतः घश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितम्, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवाना-रोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ||१|| इत्येवं योषिदङ्गसतत्त्वं भावयतीति ||३१३।। अन्यच्च
Dooooooooooooooooooooooooodoc
TTTTTT
||१६५||
For Private and Personal Use Only