________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* शिव-स्तुति *
पशुपति-अष्टकम् श्रीगणेशाय नमः ॥ पशुपतीन्दुपति धरणीपतिं भुजगलोकपतिं च सतीपतिम् । प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥ १॥ न जनको जननी न च सोदरो न तनयो न च भूरि बलं कुलम् । अवति कोऽपि न कालवशं गतं मज० ॥२॥ मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् । प्रथम भृतगणैरपि सेवितं भज० ॥३॥ शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् । अमयदं करुणावरुणालयं भज० ॥ ४ ॥ नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् । चितिरजोधवलीकृतविग्रहं भज० ॥ ५॥ मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम् । प्रलयदग्धसुरासुरमानवं भज० ॥६॥ मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम् । जगदुदीक्ष्य समीप भयाकुलं भज० ॥७॥ हरिविरञ्चिसराधिपपूजितं यमजनेशधनेशनमस्कृतम् । त्रिनयनं भुवनत्रितयाधिपं भज० ॥ ८॥ पशुपतेरिदम रकमद्भुतं विरचितं पृथिवीपतिसूरिणा । पठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम् भज० ॥६॥
॥ इति श्रीपशुपति अष्टकं सम्पूर्णम् ॥
For Private and Personal Use Only