SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १० शत्रुञ्जयतीर्थोद्धार प्रबन्धे | भूयो भूयः करमकुमरं सम्यगामन्त्र्य तीर्थो - द्धारार्थ ते सुविहितजनेष्वादिमा ये प्रसिद्धाः ॥ ८२ ॥ पुण्यक्षेत्रेषु सर्वेष्वपि विमलधनं स्थापयित्वागमोक्तयुक्तया श्रीधर्मरत्नाभिधसुगुरुमथाधाय चित्ते पवित्रे । प्रत्याख्याया घवृन्दान्यनशनविधिना साधितार्थोऽवसाने तोलाख्यः श्राद्धमुख्यः सुरसदनसुखान्याससादाऽविषादः ॥ ८३ ॥ ततः क्रमेण विगलच्छोका रत्नादयः सुताः । रम्येषु स्वस्वकृत्येषूयुक्ता धोरेयतामधुः ॥ ८४ ॥ कनीयानपि कर्मा वसनव्यवसायवान् । सुधर्मव्यसनीमुख्यः सज्जनेषु सदाऽजनि ॥ ८५ ॥ न से महनीयात्मा तनयस्यापि दुर्नयम् । दुस्थानां दौस्थ्यमुद्धर्त्तु स विक्रमपराक्रमः ॥ ८६ ॥ व्यधत्त विधिना स्पर्द्धामप्यनुल्लङ्घयन् विधिम् । विधिनिर्मितदौर्विध्यानीश्वरीकृत्य सोऽञ्जसा ॥ ८७ ॥ द्विसन्ध्यमावश्यकमेकचित्तस्त्रिसन्ध्यमर्चा जिनराजमूर्त्तेः । कुर्वन् सदा पर्वसु पौषधादिकर्मो हि धर्म चिरमारराध ॥ ८८ ॥ उपार्जयामास हिरण्यकोटीर्महेभ्यकोटीरमणिः सुखेन । वणिक् सुतश्रेणिनिषेव्यमाणोऽपापैरुपायैर्नर वाहनोऽन्यः ॥ ८९ ॥ स्वरूपशोभाविजिताप्सरोभ्यामभान्महेभ्यः सुभगः प्रियाभ्याम् । स रूपशोभाजित काममानः सदार्थिनां कल्पतरूपमानः ॥९०॥ पुत्रपौत्रमपौत्रादिस्वजनालम्बनं हि सः । रराज वासव इव स्वर्वासिभिरुपासितः ।। ९१ । इति करमाहः साधितपुरुषार्थो मनसि देवमेव जिनम् । श्रीविनयमण्डनं गुरुमस्थापयद मलसम्यक्त्वः ॥ ९२ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020705
Book TitleShatrunjay Mahatirthoddhar Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy