________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट ।
मिलिताः सूरयः सङ्घा मार्गणा मुनिपुङ्गवाः । वहमाने धनुलग्ने प्रतिष्ठा कारिता वरा ॥ ३२ ॥ लावण्यसमयाख्येन पण्डितेन महात्मना । सप्तमोद्धारसक्ता च प्रशस्तिः प्रकटीकृता ॥ ३३ ॥
श्रीमद्धा [ हदर ] क्षितीशवचनादागत्य शत्रुञ्जये
प्रासादं विदधाप्य येन वृ.......द्विम्बमारोप्य च । उद्धारः किल सप्तमः कलियुगे चक्रेऽथ ना........
जीयादेष सदोशवंशमुकुटः श्रीकर्मराजश्विरम् ॥ ३४ ॥ यत्कर्मराजेन कृतं सुकार्यमन्येन केनाऽपि कृतं हि तन्नो । यम्लेच्छराज्ये [ऽपि नृपा] ज्ञयैवोद्धारः कृतः सप्तम एष येन॥३५॥ सत्पुण्यकर्माणि बाहूनि सङ्घ कुर्वन्ति भव्याः परमत्र काले । कर्माभिधानव्यवहारिणैवोद्धारः कृतः श्रीविमलाद्रिशृङ्गे ॥ ३६ ॥ श्रीचित्रकूटोदयशैलशृङ्गे कर्माख्यभानोरुदयान्वितस्य ।। शत्रुञ्जये बिम्बविहारकृत्य [कर्माव] लीयं स्फुरतीति चित्रम् ॥३७॥
श्रीमेदपाटे विषये निवासिनः ___ श्री कर्मराजस्य च कीर्तिरु[ ज्ज्वला ]। देशेष्वनेकेष्वपि [ सञ्चरत्य ] हो
ज्योत्स्नेव चन्द्रस्य नभोविहारिणः ॥ ३८ ॥ दत्तं येन पुरा धनं बहुसुरत्राणाय तन्मानतो
यात्रा येन [ नृ ] णां च सङ्घपतिना शत्रुञ्जये कारिता । साधूनां सुगमैव सा च विहिता चक्रे प्रतिष्ठाऽर्हता
For Private and Personal Use Only