SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय उल्लासः । शेषोदितान् कर्ममहेभ्यपुण्यराशीन् लिखत्यर्जुनकः खपत्रे । समस्तरत्नाकरजै रसैश्चेत्तथाप्यनन्ता लिखितावशिष्टाः ॥१६३॥ आज्ञा श्रीविनयादिमण्डनगुरोधृत्वोत्तमाङ्गे शुभां तच्छिष्यस्तु विवेकधीरविबुधो नित्यं विधेयोऽकरोत् । श्रीकर्माभिधसङ्घनायककृतोद्धारप्रशस्तिं बुधै र्वाच्यैषा रभसोत्थदोषकणिका उत्साय निर्मत्सरैः॥१६४॥ एतत्मबन्धनिर्माणे यन्मया पुण्यमर्जितम् । सम्यग्रत्नत्रयावाप्तिस्तेनैवास्तु भवे भवे ॥ १६५ ।। यावच्छ्रीविमलाचलः सुरनरश्रेणीभिरभ्यर्चितः क्षोणीमण्डलमण्डनं विजयतेऽभीष्टार्थसंसाधकः । तावच्छ्रीकरमावसङ्घप्रकृतोद्धारप्रशस्तिः परा सद्वर्णा जयतादियं बुधजनैः सा वाच्यमानानिशम् ॥१६६॥ वैशाखासितसप्तम्यां सोमवारे शुभेऽहनि । इष्टार्थसाधकाहोऽयं प्रबन्धो रचितः शुभः ॥ १६७ ।। प्रति च प्रथमादर्शादलिख दशमीगुरौ । निदेशात्पाठकेन्द्राणां बुधः सौभाग्यमण्डनः ॥ १६८ ॥ अनुष्टुभां त्रिशत्येकचत्वारिंशत्समन्विता । सप्तविंशतिवर्णाढ्या ग्रन्थे हीष्टार्थसाधके ॥ १६९ ॥ इति श्रीइष्टार्थसाधकनानि श्रीशत्रुञ्जयोद्धारप्रवन्धे पं० विवेकधीरगणीकृते श्रीशत्रुचयोद्धार व्यावर्णनो नाम द्वितीय उल्लासः ॥ ॥ इति श्रीशत्रुञ्जयोद्धारः समाप्तः ॥ १ संवत् १५८७ । २ संवत् १८५७ । For Private and Personal Use Only
SR No.020705
Book TitleShatrunjay Mahatirthoddhar Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy