SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय उल्लासः। व्यक्तीचक्रेऽर्चकैदैरिभ्यदानवशीकृतैः ॥ १२३ जलयात्रादिने तेनोत्सवा ये च वितेनिरे । भरताधुत्सवानां ते निदर्शनपदेऽभवन् ॥ १२४ ।। अथ निर्णीते दिवसे स्नात्रप्रमुखेऽखिले विधौ विहिते । प्राप्ते च लग्नसमये प्रसरति सति मङ्गलध्वाने ॥ १२५ ॥ सर्वेषु प्रसन्नीभूतेषु जनेषु मुक्तविकथेषु । श्राद्धगणेषु समन्ताद्भक्तिभरोल्लसितचित्तेषु ॥ १२६ ॥ गायन्तीप्वतिहर्षाच्छ्राद्धीपूत्फुल्लनयनवदनासु । आतोयेषु च नदत्सु च नृत्यत्सु च भव्यवर्गेषु ॥ १२७ ।। विस्फारितनयनाम्बुजमविरतमीक्षत्सु सकललोकेषु । अहमहमिकया घट्यां धूपेषत्क्षिप्यमाणेषु ।। १२८ ॥ विकसत्कुसुमामोदैनिभृतं सुरभीकृतासु काष्ठासु । वर्षन्तीषु च कुङ्कुमकर्पूराम्भासु धारासु ।। १२९ ।। बन्दिषु पठत्सु भोगावलीषु विलसत्सु विजयशद्धेषु । सङ्क्रान्तेषु च मूत्तौं सुरेषु पूज्यानुभाववशात् ॥ १३० ॥ कर्मेभ्याभ्यर्थनयोपकारबुद्धया च विश्वलोकानाम् । रागद्वेषविमुक्तैरनुमत्या निखिलसूरीणाम् ॥ १३१ ॥ श्रीऋषभमूलबिम्बे श्रीविद्यामण्डनाहसूरिवरैः । श्रीपुण्डरीकमूर्तावपि प्रतिष्ठा शुभा विदधे ॥ १३२ ॥ (अष्टभिः कुलकम् ) नालीलिखंश्च कुत्रापि हि नाम निजं गभीरहृदयास्ते । मायः स्वोपज्ञेषु च स्तवेषु तैर्नाम न न्यस्तम् ॥ १३३ ॥ सङ्ग्रहश्लोकश्चात्रस्वस्ति श्रीनृपविक्रमाज्जलधिदिग्बाणेन्दुवर्षे१५८७ शुभे १ तदा मूलनायकातिमया सप्त श्वासोच्छासाः कृताः । For Private and Personal Use Only
SR No.020705
Book TitleShatrunjay Mahatirthoddhar Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy