________________
2
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शत्रुजय कल्पवृ.
॥ ७१ ॥
STATS5252525TSSTSEB
॥ श्री तालध्वजनामोपरि धरापालभूपकथा ॥ श्रीसिद्धधरणीध्रस्य धरापालः क्षमापतिः । तालध्वजेति नामाऽदात् नानोत्सवपुरस्सरम् ॥१॥ कुम्भपुर्या धरापाल-भूपस्य न्यायशालिनः । बभूव प्रेयसी पद्मा नाम्ना श्रीः श्रीपतेरिव ॥२॥ पुत्रः पुरन्दरस्तस्य पुरन्दरपराक्रमः । मातापित्रोस्तनोतिस्म हर्ष सद्विनयो नयी ॥३॥ राजाऽन्यदा गुरोः पार्श्वे धर्म श्रुत्वा जिनोदितम् । पूजां श्रीजिननाथस्य तनुते-स्मोपवैणवम् ॥४॥ इतः स्वर्गे सुरेन्द्रोऽवग् धरापालो महीपतिः । पूजां कूर्वन् प्रभो व चाल्यते निर्जराऽसुरैः ॥ ५॥ अश्रद्दधत् सुधाभोजी मुकुन्दाह्वो जगावहं(दः) । अहं तं चालयिष्यामि भूपं स्वाभिग्रहात् द्रुतम् ॥६॥ उक्त्वेति स्वर्गतः कुम्भ-पुर्यामेत्य स निर्जरः । भूपस्य कुर्वतः पूजां हस्तात् पुष्पाण्यपाहरत् ॥ ७ ॥ एवं यदा यदा भूपः पुष्पाणि स्वशये ललौ । तदा तदाऽहरदेवः पुष्पाण्यलक्ष्यरूपभाग् ॥ ८॥ एवं दिनत्रयीं यावद् विना पूजां नरेश्वरः । बुभुजे न यदा तावत् स सुरः प्रकटोऽवदत् ॥९॥ धन्योऽसि त्वं यतस्ताव-कीनं चेतोऽचलन् नहि । लाहि चिन्तामणि चित्त-चिन्तितार्थप्रदं वरम् ॥१०॥ चिन्तामणि समाराध्य याचं याचं च वैभवम् । व्ययति स्म नृपः सप्त-क्षेत्रेषु प्रतिवासरम् ॥११॥ राजा स्फटिकपाषाणै-रष्टोत्तरशतप्रमैः । मण्डपैः कारयामास जिनौकः स्वगृहाङ्गणे ॥१२॥
52STISSISSISESESSESESTSICH
For Private and Personal Use Only