________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥६८॥
SESTSESESTSESSETSASSISE
शत्रुञ्जयस्य माहात्म्य-माकर्ण्य धर्मभूपतिः । बहुसङ्घयुतोऽचालीद् वन्दितुं जिननायकम् ॥१५॥ गत्वा शत्रुञ्जये मूल-नायकप्रतिमा धुरि । पूजयित्वा नृपोऽन्येषां जिनानामर्चनं व्यधात् ॥१६॥ विस्तरादादिदेवस्य ध्वजान्तामर्थनां तदा । कृत्वाऽऽनर्च प्रभोः पादौ प्रियालोश्च प्रदक्षिणाम् ॥१७॥ शान्तिनाथस्य कृत्वाऽर्चा निशीथिन्यां महीपतिः । ध्यानं वितन्वतः प्रादुर्भत्वा यक्षो जगावदः ॥१८॥ तीर्थभक्तेस्तवेदानीं तुष्टोऽस्मि मेदिनीपते ! । दृश्या श्रीशान्तिनाथस्य समस्ति रसकूपिका ॥१९॥ तां मुत्कलमुखामद्य करिष्यामि दिनोदये । त्वया ग्राह्यो रसस्तस्यास्ततो हेम भविष्यति ॥२०॥ यक्षदर्शितकूपात्तु रसं लात्वा यथेप्सितम् । कोटिभारमितं हेम व्यरचन् मेदिनीपतिः ॥२१॥ दशभारप्रमाणानि शतबिम्बानि रुक्मिनाम् । चतुर्विंशतिसार्वाणा-मकारयन् महीपतिः ॥ २२ ॥ लक्षबिम्बानि रूप्यस्य पित्तलस्य वरस्य च । नवलक्षमितान्येव नवति प्रास्तराणि च ॥ २३ ॥ एवं कोटिमितान्येव बिम्बानि सिद्धपर्वते । स्थापयित्वा नृपः सङ्घ भक्तितः पर्यधापयत ॥२४॥ तदा धर्मधनाचार्यः प्राह नृप ! नृणां पुरः । अयं कोटिनिवासाहो गिरिनिगद्यतां जनैः ॥२५॥ धर्मभूपः क्रमाद् राज्ये न्यस्य स्वनन्दनं गजम् । दीक्षां लात्वा तपः शत्रु-जये तीर्थे बहु व्यघात् ॥ २६ ॥ क्षिप्त्वा कर्माऽखिलं धर्म-राजर्षिज्ञानमव्ययम् । प्राप्य शत्रुञ्जये मुक्ति ययौ भूरिसुसाधुयुग् ॥ २७ ॥
BSESSESESESESZSZSESESZSESZI
॥६८॥
For Private and Personal Use Only