________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
शत्रुजय कल्पवृ०
ISTSESTESTTS2525225SESC.
हीराहवे नगरे ढङ्क-भूपस्य न्यायशालिनः । ढङ्कश्रीः प्रेयसी चञ्चद्-गुणमाणिक्यभूरभूत ॥२॥ सत्स्वप्नसूचितं पुत्र-मभूत ढङ्कगेहिनी । जन्मोत्सवं पिता कृत्वा हरेत्याह्वां ददौ सुते ॥३॥ कुमारोऽन्येधुरानन्द-मूरिक्षमणयामलं । प्रणम्य देशनां श्रोतु-मुपविष्टः कृताञ्जलिः ॥४॥ * पूजा पच्चक्खाणं पडिकमणं पोसहो परुवयारो । पंच पयारा जस्स य न पयारो तस्स संसारे ॥५॥ शुद्धं धर्म चरन् जीवो लभते सुखमुत्तमम् । पापं कुर्वन्नवाप्नोति श्वभ्रे दुःखपरम्पराम् ॥६॥ तत्र भूपसुतः प्राह नमस्कारशतत्रयी । गणनीया मया नम्यो जिनेन्द्रः प्रतिवासरम् ॥७॥ राज्यभार समारोप्य सुतस्कन्धे निजांसतः । अलञ्चकार चारित्र-रमां ढङ्कमहीपतिः ॥ ८॥ पठित्वा भूरिशास्त्राणि गुरूणां सन्निधौ क्रमात् । बृहस्पतिसमो जातो विद्यया ढङ्कसंयतः ॥९॥ प्राप्य सूरिपदं कुर्वन् विहारं वसुधातले । बोधयामास सर्वज्ञ-धर्म भूरिजनान् क्रमात् ॥१०॥ शत्रुञ्जये गतोऽन्येद्यु-ढङ्कसरिः सुसाधुयुग् । ढङ्ककूटे तपस्तीत्रं चकार शिवशर्मदम् ॥११॥ ढकमरिः शुभध्यानात् केवलज्ञानमाप्तवान् । तदाऽन्ये बहवो वाचं-यमा ज्ञानजुषोऽभवन् ॥१२॥
आयुःक्षयेऽखिला वाचं-यमा मुक्ति यदाऽगमन् | तदा सिद्धोत्सवं तेषां चक्रुरेत्य सुधाभुजः ॥१३ ।। पितुर्मुक्तिगतिं तुङ्गे कूटे शत्रुञ्जयाचले । श्रुत्वा हरमहीपालो हृष्टोऽजनि स्वचेतसि ॥१४॥
LCGISSZISZSZS2552ESTISSES
॥६५॥
For Private and Personal Use Only