________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
यदा तत्र महाशैले सहस्रपत्रसरिराट् । मुक्तिपु- ययौ शक्र-श्चक्रे चारूत्सवं तदा ॥ २४ ॥ सहस्रपत्रगेहिन्यः समेत्य सिद्धपर्वते । संप्राप्याऽनु त्तरं ज्ञानं मुक्तिपुर्या समागमन् ॥ २५ ॥ सहस्रपत्रसूरीशे मुक्तौ याते मरुत्पतिः । ददौ सहस्रपत्रेति नाम तीर्थस्य सूत्सवम् ॥ २६ ॥
-
-
-
-
--
-
-*
शत्रुजय कल्पवृ०
HS2SCSESTST SESISTSUSESTSEST
॥ श्री शतावर्तनामोपरि सोमदेवमहीपतिकथा ॥ यात्रां शत्रुञ्जये कृत्वा सोमदेवो नरेश्वरः । शतावर्तेति नामाऽदा-च्चारूत्सवपुरस्सरम् ॥१॥ कुण्ड केलिपुरे सोमदेवो न्यायेन मेदिनीम् । पालयन् कुरुते धर्म-कर्माणि सततं मुदा ॥२॥ साधयन् विषयान् भूपः क्रमाद्दक्षिणदिक्तटे । अरिमर्दनभूपालं स्वाज्ञामग्राहयद् बलात् ॥३॥ सोमदेवे महीपाले पालयति क्षमां नयात् । प्रजा प्रमुदिता जाता सोमे सत्युडुपक्तिवत् ॥ ४ ॥ यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा । तथा यथार्थनामाऽभूद् राजा प्रकृतिरञ्जनात् ॥५॥ भेदयित्वाऽन्यदा सर्व परिवारं धनार्पणात् । मदनोऽरिनृपः कुण्ड-केलिपुर्या समागमत् ॥६॥ सोमदेवो नृपः पुर्या निर्गत्य बहिरजसा । युद्धयन् सहाऽरिणा जज्ञे बलं विघटितं निजम् ॥ ७ ॥
2525222525252265TEST25
For Private and Personal Use Only