________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥४९३॥
IES2S2S2PSISISIRS
P प्रद्युम्नेन समं भोगं वाञ्छन्त्यवक खगप्रिया । तापं स्मरोद्भवं मे त्वं हृदोदानाद् दयां कुरु ॥ २६१ ॥
श्रुत्वेति जननीवाणी विस्मितः कृष्णमूर्जगौ । इदं दुर्गतिदं प्रोक्तं वचः किं जननि ! त्वया ॥ २६२ ।। * यतः- “ अप्पउं धूलिहि मेलिउ सयणह दीधउ छार । पगि पगि माथा ढाकणुं जिणि जोइ परनारि ॥१॥क * अकर्त्तव्यं न कर्त्तव्यं प्राणैः कण्ठगतैरपि । सुकर्त्तव्यं तु कर्त्तव्यं प्राणैः कण्ठगतैरपि ॥२॥ ततः कनकमालाऽवग नाहं ते जननी निजा । किन्तु त्वं कानने प्राप्तः पालितोऽत्र मयाऽधुना ॥ २६३ ॥ जगज्जयकरे विद्ये गौरीप्रज्ञप्तिकाभिधे । गृहाणाऽनुगृहाण त्वं भोगदानात् कृपाऽऽकर ! ॥ २६४॥ अकृत्यं न करिष्येऽह-मिति ध्यात्वाऽऽह कृष्णसूः । मातः ! प्रयच्छ मे विद्ये प्रमाणं वचनं तव ।। २६५ ।। विद्ये तयोदिते प्राप्य साधयित्वा स कृष्णमूः । याचमानां हृदं तां च त्यक्त्वाऽगान् नगराद् बहिः ।। २६६ ॥
तदा दत्त्वा नखैः स्वागं तया कलकले कृते । उदायुधा रिपुं हन्तुं तत्रेयुस्तत्सुतास्तदा ॥२६७ ॥ । मातुः पराभवकरं नरं ज्ञात्वाऽथ तत्सुताः । कुपिता बहिरुयाने प्रद्युम्नं हन्तुमागमन् ॥ २६८॥
आयान्तस्ते हता विद्या-बलेन हरिसू नुना । तथा यथाऽगमन् रक्तं वमन्तः स्वीयमन्दिरे ॥ २६९ ॥ ताडितान् तत् सुतान् वीक्ष्य क्रुद्धः संवरखेचरः । ययौ कृष्णसुतं हन्तुं सर्वानुगसमन्वितः ॥ २७० ॥ प्रद्युम्नः संवरं खेटं बलिष्ठमपि लीलया । जित्वोद्याने स्थितो यावन् नारदस्तावदागमत् ॥ २७१ ।।
ASSESESZSLISESSESTES2
For Private and Personal Use Only