________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ० ॥४७९॥
ZSESE2525252525252SSZIT
* यतः-" मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्राय प्रकाशयति लीलया ॥१॥ वारुणीपानतो यान्ति कान्तिः कीर्तिः धृतिः श्रियः । विचित्राश्चित्ररचना विलुठत्कजलादिव ॥ ८४ ।। तत्र भिक्षाकृते स्वीयं देवरं चातिमुक्तकम् । आगतं वीक्ष्य कंसस्य पत्नी जीवयशा जगौ ॥ ८५॥ अस्मिन् क्षणे वरं कान्तानुज ! त्वमतिमुक्तक ! । आगतोऽसि मया साई मद्यं पिच रमस्व च ॥ ८६ ॥ जल्पन्त्येति तया कण्ठैः श्लिष्टः कंसाऽनुजो जगौ । देवक्याः सप्तमो गर्भो हन्ता ते तात-कान्तयोः ।। ८७ ।। आकण्येतद् वचो जीवयशा गतमदा क्षणात् । पत्यू रहो मुनिप्रोक्तं कंसस्य पुरतो जगौ ॥ ८८ ॥ मृत्युभीतेन कंसेन प्रीत्यै-वानकदुन्दुभिः । अथितो देवकीगर्भान जल्पन्नेवं कृपास्वरम् ॥ ८९ ॥ स्वप्ने मेघसुरः कश्चित् प्राहेति कंस ! चेद्यदि । देवक्याः सप्तगर्भास्त्वं वर्द्विष्यसि गृहे रहः ॥९०॥ तदा ते जीवितं भावि चिरं नो चेन्मरिष्यसि । अनुमेने वचस्तञ्च वसुदेवस्तदादरात् ।। ९१ ॥ देवक्या जनितं गर्भ कसो नीत्वा रहस्तदा । हन्ति निःकरुणं स्फार-शिलायामुपरि स्फुटम् ॥९२ ।। नैगमेषी तदाऽभ्येत्य रहोवृत्त्या तमर्भकम् । नीत्वाऽदात सुलसाश्राद्धथै कंसाय तत्सुतां पुनः ॥ ९३ ॥ मृतं वसुसुतं गत्वा स्फालयित्वा दृढाइमनि । न्यक्षिपद् धरापीठे कंसभूपो रहोऽन्यदा ॥ ९४ ॥ एवं षडपि तत्पुत्रान् सुलसाश्राद्ध्यै सुरो ददौ । सुलसाया सुताः पञ्च मृताः कंसाय चार्पयत् ॥ ९५ ॥
255259EST525SISSISS25525
॥४७९॥
For Private and Personal Use Only