________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
शत्रुजय कल्पवृ०
॥४४०॥
PSISESSESaSPSSSELSESS
खेचरद्धि विभुज्याऽथ तत्र नन्दीश्वराङ्गजः । लात्वा दीक्षां ययौ स्वर्गे चतुर्थे जीवितात्ययात् ॥१३९६ ॥ क्षेमकरे भरतपुरे, च्युत्वा पूर्व विदेहगे । स श्रीचन्द्राभिधः पुत्रो विमलाद्वाहनेशितुः ॥ १३९७ ।। तत्र भोगसुखालीनो धनदत्तासुमान् भृशम् । श्रीचन्द्रो वेत्ति सूर्येन्द्रो-रुदयास्तं न चेतसि ॥१३९८ ॥ अथाऽन्यदा पुरोद्याने समाधिगुप्तनामकम् । सूरिं समागतं श्रुत्वा नन्तुं श्रीचन्द्र ईयिवान् ॥ १३९९ ॥ उपविष्टे कुमारे तु धर्म श्रोतुं जिनोदितम् । प्रारेभे देशनां कत्तु प्रवृत्तः स मुनीश्वरः ॥१४००॥ "जीवो अणाइकालं हिंडतो बहुविहासु जोणीसु । दुक्खेहिं माणुसत्तं पावइ कम्माणुभावेण ॥१॥ इन्दधणु-फेण-बुवुय-संज्झासरिसोवमे मणुअजम्मे । जो ण कुणइ जिणधम्म सो हु मओ बच्चए नरयं ॥ २॥ जह इन्धणेसु अग्गी ण य तिप्पइ जलेषु वि समुद्दो । तह जीवो न य तिप्पइ विउलेसु बि कामभोगेसु ॥३॥" श्रुत्वेति साधुवचनं श्रीचन्द्रो राज्यमन्जसा । दत्वा स्वमूनवे दीक्षां ललौ मुनीशसन्निधौ ॥ १४०१॥ षष्ठाष्टमादि कुर्वाण-स्तपः श्रीचन्द्रसंयतः । आयुःक्षये समुत्पन्नो ब्रह्मलोके सुरालये ॥१४०२॥ नगरे नीलकुण्डाढे विजयात् सेनभूपतेः । पत्नी नयनचूलाऽभूद् गुणालङ्कारभूषिता ॥१४०३ ।। वज्रकम्बुः सुतस्तस्य स्नुषा हेमवती वरा । अभूतां सद्गुणश्रेष्ठि(णि)-शालिनौ रुचिराशयौ ॥१४०४ ।। श्रीकान्तस्यपुनोऽसुमान् स्वयम्भूरभवत्तयोः । वसुदत्तस्य जीवोऽथा-ऽभ्रमद् भूरिभवेष्वहो ॥१४०५ ॥
SSPS2S2S2S2S215ESS
४४०
For Private and Personal Use Only