________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जय कल्पवृ०
॥४१४॥
PESTSESTSESESCITIZE
त्रिशूलरहितोऽप्येष मधुर्महाबलो नृपः । शत्रुघ्नेन समं युद्धं मासमेकं व्यधात्तदा ॥११२६ ॥ आगतं मरणं दृष्ट्वा पुत्रशोकसमाकुलः । मधुर्दध्यौ मया पूर्व किं लले न हि संयमः ॥११२७ ॥ यतः- " मरणं गाऊण धुवं कुसुमसमं जोव्वणं चला रिद्धि ।
अवसेण मए तइया ण को धम्मो पमाएणं ॥१॥ पज्जलियम्मि वि भवणे कूवतलायस्स खणणमारंभो । अहिणा दट्ठस्स जए को कालो मन्तजवणस्स ॥२॥ तम्हा पुरिसेण जए अप्पहिअं निययमेव कायब्वं । मरणम्मि समावडीए संपइ समरामि अरहतं ॥३॥ अरहन्ते सिद्धे चिअ साहू तह केवलीय धम्मो य । एए हवंति निययं चत्तारि वि मंगलं मज्झ ॥४॥ एगो जायइ जीवो इको उप्पज्जइ भमइ इको । सो चेव मरइ इक्को इको चिअ पावए सिद्धिं ॥५॥ ध्यात्वेति त्यक्तशस्त्रादि-मधुर्लश्चितमस्तकः । सर्वसावद्यविरति-मुच्चचार स्वयं तदा ॥११२८ ॥ तत्रैत्य निर्जरा योम्नि मधुसंयतमस्तके । व्यधुः कुसुमवृष्टिं तु देववाद्यपुरस्सरम् ॥ ११२९ ।। शत्रुघ्नेन ततस्तत्रा-भ्येत्य तस्य पदोस्तले । पतित्वा क्षमितो मिथ्या-दुष्कृतस्य प्रदानतः ॥११३०॥ त्वं मधो ! भाग्यवानेव यतो राज्यं तृणवत्तदा । त्यक्त्वाऽऽदाः संयम मुक्ति-सुखसंततिदायकम् ॥ ११३१ ॥ अहं तु परराज्येप्सु-रस्मि दुष्टमना भृशम् । मम श्वभ्रं विनाऽन्यत्र गतिर्नान्या भविष्यति ॥११३२ ।।
SESESESSISTSZEITSSTE
॥४१४॥
For Private and Personal Use Only