________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
259125
कल्पवृ०
॥४०१॥
252525252
आदौ जिनालये गत्वा प्रणम्य श्रीजिनाधिपम् । उदारैः स्तवनैश्चक्रे स्तुति रामनरेश्वरः । ९७१ ॥ तथाहिप्रातः प्रभूतपुरुहूतनतानि पश्य पश्यति पश्यति पदानि तव प्रभोर्यः ।
तस्याध्रियामलमलं विमलं मरुत्वान् संसेवते समसुपर्वयुतो नितान्तम् ॥९७२ ॥ त्रैलोक्यलोककुमुदप्रमदप्रदायी कस्कान्धकारनिकरैकनिराकरिष्णुः ।
आनम्रसर्वसुरराजसमाज ! राज-राजेति राजति तवाननपूर्णिमेन्दुः ॥९७३ ॥ जय जयेति जपन्ति निरन्तरं मनसि नाम नरास्तव ये विभो ! ।
तुद तुदेति तुदन्ति न तान् मनाग् मदनमोहमुखान्तरवैरिणः ॥ ९७४ ।। निःशेषनाकिनरनाथनताङ्घ्रिपद्म ! पद्मातनूभवभवाभवभीतिनेतः ।
भक्त्या भवी भुवि विभो ! वदनं प्रपश्यन् सत्सातभाग् भव भवेति भवेन् न को हि ॥९७५॥ अर्थिभ्यो मार्गितं दानं दत्त्वा सन्मान्य सज्जनान् । रामो निजालयं वर्य समायातः सदुत्सबम् ॥ ९७६ ।।
तदाऽयोध्यापुरि भूरिकुलकोटिकुटुम्बयुग् । वर्यवप्रमहेभ्यालीसंयुता शोभतेतराम् ॥ ९७७॥ H* यतः-सुरभवणसमं गेहं खितिसरो णाम हवइ पायारो । मेरुस्स चूलिआ इव तह य सभा वेजयंती अ॥९७८॥
साला य विउलसोहा चंकमणं हवइ सुविहिनामेणं । गिरिकूडं पासायं तुंगं अवलोअणं चेव ॥९७९ ॥
TeSS52SSESES255255265297
॥४०१५
For Private and Personal Use Only