________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शासननायक श्री वर्द्धमानस्वामिने नमः ॥ श्री गौतमो गणाधीशो विजयतेतमाम् ॥
प्रास्ताविकम्
श्रीमद्भिः वीतरागसर्वज्ञपरमात्मभिः जगज्जन्तूद्धाराय सम्यग्दर्शनसहित शानपरिपूत-क्रियात्मकाऽऽत्मकल्याणमार्गः शानिनिश्रा-विधिसमुपसेवासमुपबृंहितः प्रज्ञप्तः विषमकर्मावरणविलयनप्रभुः । नैकत्रविप्रतिप्रत्तिः यदेतस्मिन् राजमार्ग सञ्चरणे सत्यपि कर्मावरणानपगमो वाऽऽत्मिक सुखानवाप्तिश्च । नैकैराराधकपुण्यात्मभिरेतन्मार्गस्याव्याहतत्वमुधुष्टं पुरा कोटिलक्षावधि-विपुलसमूहात्मकसिद्धिगमनेनेदानीमपि विवेकिभिः पुण्यात्मभिः विषमदुष्षमारप्रभावमपसर्पयद्भिः विविधव्यामोह जनकविषमनिमित्तानुपजीवकैः विषयवासना व्यावर्तवर्द्धकमोहकपदार्थप्रलोभनं निष्फलयद्भिः सद्धर्माराधनपरैरिति ।
परन्तु नहि सर्वे आराधकपुण्यभाजः तादृशसत्त्वगुणसनाथाः भवन्तीत्यतः कर्मणां च कपायलेश्यावशेन चिरप्ररूढानां निकाचितानामनिकाचितानां द्रव्य-क्षेत्र-काल-भाव-भवस्वरूपनिमित्तपञ्चकैनोदयः विपाकरूपः भवतीत्यतश्च पुराऽज्ञानादिबलेनोपार्जितानां कर्मणामशुभद्रव्यादिपञ्चकबलेन जायमानाऽशुभोदयसन्निरोधार्थ सकामनिर्जरार्थ च परिपुष्टप्रगुणतमविशिष्टतम सामग्रीसहयोगसम्पत्तये उपयोगिपापहासपुण्योदयप्राबल्यधानाय जम्बूद्वीपगतैतद्भरतक्षेत्रातिरिक्तचतुर्दशकर्मभूमिषु लोकत्रये वा यदधिकं यत् सदृशं वा कर्मक्षयायानन्यथासिद्धहेतु
For Private and Personal Use Only