SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुजय कल्पवृ० ॥३२७॥ SESESSTILSTSESTITSSIESTE भामण्डलोऽपि रामेण सह प्रीतिं दधद् भृशम् । आगाद् दशरथेनाऽमा तत्रैव नगरे तदा ॥१४४ ॥ रामेण मानितोऽत्यन्तं वस्त्रान्नादिप्रदानतः । भामण्डलौ ययौ स्वीये पुरे व्योमगसेवितः ॥१४५ ॥ सर्वासां तु वधूटीनां वासावासान् पृथक पृथग् । ददौ दशरथः क्षमापः सन्मानदानपूर्वकम् ॥ १४६ ॥ राजा दशरथो लात्वा बलमश्वेभशालिनम् । साधयामास भृपीठं सागरान्तिकमञ्जसा ॥१४७॥ स्वकारिते जिनागारे-ऽन्यदा दशरथो नृपः । स्नात्रं विस्तरतश्चक्रे शान्तेस्तीर्थपतेर्मुदा ॥ १४८ ॥ मङ्गलार्थ जिनस्नात्र-पयः पृथक् पृथग् नृपः । राज्ञीभ्यः प्रेषयामास वधूटीभ्यश्च सादरम् ॥ १४९॥ भूपेन प्रेषितं स्नात्र-पयो राज्ञीभ्य आर्हतम् । स्वपार्श्वे नागतं मत्वा सुमित्रा मर्तुमिच्छति ॥ १५० ॥ मर्नु पाशं गले यावत् सुमित्रा क्षिपति स्वयम् । तावद् दृष्ट्वा नरः कश्चिद् भूपाग्रे तन् न्यवेदयत् ॥१५१॥ तत्रैत्य त्वरितं पाशं सुमित्राकण्ठगं नृपः । छित्वा प्राह प्रिये ! प्राण-त्यागः किं क्रियते त्वया ? ॥१५२ ॥ सुमित्राऽवक त्वयाऽन्यासां राज्ञीनां स्नात्रजं पयः । प्रेषितं न हि मह्यं तु म्रियेऽहं तेन पाशतः ॥ १५३ ॥ राजा प्राह मया प्रेषि तुभ्यं स्नात्रपयस्तदा । तत्रैत्य वामनो नीरं लात्वा तत्रागमच्चिरात् ।। १५४॥ राजाऽवग् वामनोत्सूरे त्वयाऽत्राऽऽनायि किं पयः ? । वामनः प्राह वार्द्धत्वा-दंहयोर्मन्दगतिर्मम ॥ १५५ ॥ आकण्यतत्तदा दध्यौ सुमित्रा मयका मुधा । कान्तस्योर्ध्व कृतः क्रोधो मर्तुं च वाञ्छितं मुधा ।।१५६॥ PPSSUSUZSZSSESTISSES For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy