________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुजय
कल्पवृ०
ASISESESTSESTS2SCSISESTS
कथं सम्बोध्यते राजा ? सुग्रीवस्य च का प्रिया ?। निर्धनास्तु किमिच्छिन्ति ? किं कुर्वन्ति तपोधनाः ? ॥ २३ ॥ [ देव-तारा-धनं ] एकनारि वनगहनि उप्पन्ना, सव्वसुलक्खण जग सइ बनि । इसिउ वेंटउं कूरपई धरिओ जग सकलो जिणि ऊधरिओ ॥ २४ ॥ [चउणि ] का चीवराणं पवरा ? किं दुलहं मरुदेसमज्झम्मि ?।
किं पवणाओ चवलं ? दिवसकयं किं हरइ पावं ॥ २५॥ [ पडिक्कमणं ] पूरितासु समस्यासु वीरसेनेन भूभुजा । तं वत्रु भूपनन्दिन्यो रुचिरोत्सवपूर्वकम् ॥ २६ ॥ वीरसेनकुमाराय हस्त्यश्वमणिसञ्चयान् । ददौ महीपतिर्वर्य-वस्त्रदानपुरस्सरम् ॥ २७ ॥ अष्टकन्यायुतो वीर-सेनोऽभ्येत्य निजे पुरे । मातापित्रोः पदौ नत्वा प्रमोदं चकवांस्तराम् ॥ २८ ॥ भीमसेनोऽन्यदा वीर-सेनपुत्राय सूत्सवम् । राज्यं दत्त्वा गुरूपान्ते संयमश्रियमाप्तवान् ॥ २९ ॥ कुर्वस्तीवं तपः प्राप्य केवलज्ञानमन्यदा । भीमसेनमुनिः पुत्र-प्रबोधायागमत् क्रमात् ॥३०॥ वीरसेनो ययौ धर्म श्रोतुं तातान्तिकेऽन्यदा । तदा ज्ञानी ददौ धर्मो-पदेशमिति सादरम् ॥ ३१ ॥
125252525252SPSZISZSESE251
१४॥
For Private and Personal Use Only