________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥३०३॥
ITIS2SSEISESTSESTSESEST
विधिवत्तत्र तीर्थेशं स्नपयित्वा सुवारिभिः । पुष्पैश्च विदधे भूपो ध्वजदानादिकां क्रियाम् ॥९९ ॥ आरात्रिकं च मङ्गल-दीपकं विधिवत्तदा । कृत्वा प्रभोः पुरो भाव-स्तुति चक्र घराधिपः ॥१०॥ स्वामिनः पादुकाऽर्चा च कृत्वा राजादनीतरोः । प्रदक्षिणां महीपाल-श्वकार सङ्घसंयुतः । १०१॥ इतस्तत्र सुरः सिंहोऽभ्येत्याऽवग् भूपतिं प्रति । तिर्यग्गतौ गतोऽथाहं तव तातेन शान्तिना ॥१०२॥ प्रबोध्य ताविषे नीतो भूयिष्ठसुखमन्दिरे ! ततो मयाऽत्र ते तातसम स्फारं विधापितम् ॥१०३ ॥ युग्मम् ॥ ततस्तत्रैत्य पूजां श्री-शान्तः श्रीवृषभप्रभोः । कृत्वा पूजां निजं जन्म सफलं कुरु भूपते ! ॥१०४ ॥ ततस्तत्र नृपो गत्वा कृत्वाऽर्चा श्रीजिनेशितुः । चक्रे चक्रधरः सङ्घ-युतः स्वं सफलं जनुः ॥१०५॥ तापसास्तेऽपि सिद्धाद्रौ युगादीशं जिनेश्वरम् । प्रणम्य सफलं चक्रुनिजं जन्म सुभावतः ॥१०६॥ घातिकर्मक्षयात्तेषां तापसानां सुचेतसाम् । उत्पन्नं केवलज्ञानं लोकालोकावलोककम् ॥१०७॥ यत्र ते तापसाः सिद्धा-स्तत्र चक्रधरो नृपः । व्यधात्तापससझं श्री-सर्वज्ञसदनं महत् ॥१०८ ॥ चक्रे चक्रधरो नव्यान जिनावासान् बहून् क्रमात् । तत्र जीर्णजिनागारानुद्दधार धनव्ययात् ॥१०९॥ प्रभासे गिरिनाराद्रौ सम्मेतशिखरेऽर्बुदे । यात्रां कृत्वा व्यधाजीर्णोद्धारान् भूपो जिनौकसि ॥११० ॥ इत्थं बहुषु तीर्थेषु यात्रां कृत्वाऽतिविस्तरात् । अचीकरद् जिनागारान् नव्यान् जीर्णोद्धृतानपि ॥१११ ॥
LTSSTISC25255255ES:9250
॥३०३५
For Private and Personal Use Only