________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SPSPS
शत्रुञ्जय कल्पवृ.
॥१८७॥
S-SE 15
गुहामुद्घटितां ज्ञात्वा भरतो(भूपो) द्वादशयोजनीम् । पश्चाद्यदाश्वमारूढो ययौ पवनवेगतः ॥३०॥ गुहाज्वालां गतां पश्चाज्ज्ञात्वा भरतभूपतिः । गुहायामविशदीप-तुल्यमण्डलतेजसा ।। ३१ ।। उन्मग्नां निमग्ना कूल-कपामुत्तीर्य वेगतः । वैताढयात पुरतो यातो भरतो मेदिनीपतिः ॥३२॥ आगतं सबलं भूपं म्लेच्छास्तत्र स्थिता रुषा । युद्धं कर्तुं समाजग्मुर्यमा इव दृढ़ौजसः ॥ ३३ ।। योधं योधं भृशं म्लेच्छा भग्ना दुर्गेऽतिदुर्गमे । गत्वाशु साधयामासुविद्यां रोगविधायिकाम् ॥ ३४ ॥ अशक्ताः समरं कर्तुं म्लेच्छा मत्सरधारिणः । रोगमुत्पादयामासुर्भरतक्ष्मापतेर्बले ।। ३५ ॥ रोगेण पीडितं च सैन्यं ज्ञात्वा चक्री तदा भृशम् । उपायान् भूरिशश्चक्रे मन्त्रतन्त्रादिभिः खलु ॥३६॥ सुबुद्धिर्मन्त्रिराइ नत्वा भरतेशं व्यजिज्ञपत् । आत्मसैन्येऽभवद्रोगोऽशक्यो हन्तुं तु भैषजैः ॥ ३७ ॥ नायं त्रिदोषजो रोगो विद्यते स्वबले नृपः । आगन्तुकोऽभिचारादि-दोषादुत्पादितः परैः ॥ ३८ ॥
एवं जल्पति मन्त्रीशे द्वौ खगौ विमलद्युती । व्योम्नोऽभ्येत्य नर्ति भूमि पतेश्चक्रतुरादरात् ॥३९॥ न भूपो जगौ कुतः स्थानात् किमर्थमिह वां खगौ । आगतौ ? प्रोचतुस्तौ तु खगावाऽऽवां महीपते ! ॥ ४०॥ . वायुवेगमनोवेगौ खगावावां नमोऽध्वना । अगच्छाव युगादीशं वन्दितुं भवतः पितुः ॥४१॥
तत्र श्री ऋषभेनेति शत्रजयमहीभृतः । माहात्म्यं जल्पताऽश्रावि प्रियालमहिमाऽद्भुतः ॥ ४२ ॥
SSTSSESS-SSZ5SZTTSSES
॥१८७॥
TSITSI
For Private and Personal Use Only