________________
Shri Mahavir Jain Aradhana Kendra
शत्रुष्जय कल्पवृ०
॥ १२४ ॥
25295255252525252522525
www.kobatirth.org
भूमीपतिततैलस्य विन्दून् गृह्णन् मयेक्षितः । अतः कृत्वा मिषमिदं परीक्षा से कृता पितः ! ॥ २१ ॥ श्रेष्ठथाहाऽव्यवहारेण यद्याति तद् वृथाऽखिलम् । व्यवहारे तु भूयिष्ठो विभवो व्ययते ध्रुवम् ॥ २२ ॥ विशेषाद्धर्मकृत्येषु व्ययंल्लक्ष्मीमहं सदा । खेदं कुर्वे मनाग् नैव व्ययत्सु नन्दनादिषु ।। २३ ।। ततो वधूर्जगौ तात ! त्वं धन्यः पुण्यवानसि । यतस्तवेदृशी बुद्धिर्धर्मकर्म्मणि सुन्दरे ॥ २४ ॥ सव्ययः क्रियते सद्भिः सदा सद्गतिहेतवे । असद्व्ययो विधीयेत मूढैर्दुर्गतिहेतवे ॥ २५ ॥ अन्यायन्यायभेदेन चतुर्भङ्गी धने भवेत् । अन्त्यः सर्वोत्तमो भङ्गो न्यायार्जितस्य सद्व्ययात् ॥ २६॥ श्रेष्ठस्तुषे ततो यावज्जीवं लक्ष्मीं लसद्व्ययात् । सफलीचक्रतुः सप्त-क्षेत्रेषु विभवव्ययात् ॥ २७ ॥ प्रान्ते श्रेष्ठिनुषे मृत्वा ssदिमे स्वर्भवतां सुरौ । ततश्च्युतौ धरापुर्यां भीमभूपाङ्गजौ पुनः ॥ २८ ॥ द्वापि भ्रातरौ प्रीति वन्तौ गुर्वन्तिके गतौ । धर्मं दयामयं श्रुत्वा ललतुः संयमं पुनः ॥ २९ ॥ पालयित्वा तं भूरि वर्षाण्याप्तविदौ क्रमात् । महोदयपुरीं सद्यो ऽलञ्चक्रतुः सहोदरौ ॥ ३० ॥ पुण्योपदेशमित्यादि श्रुत्वा भूरिजनास्तदा । व्रतं लात्वा शिवं जग्मु-स्तीर्थे विमलपर्वते ॥ ३१ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
P552552525252525525877
॥ १२४ ॥