________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- चार्वाकस्तु वराक आत्मतदाश्रितधर्माधर्मनरकस्वर्गापवर्गा दिकं सर्वं कुप्रगहिलतयैवाप्रतिपद्यमानोऽवज्ञोपहत एव कर्तव्यो न पुनस्तं प्रत्यनेकान्ताभ्युपगमोपन्यासेन पूर्वापरोक्तविरोधप्रकाशनेन वा किमपि प्रयोजनं, सर्वस्य तदुक्तस्य सर्वलोकशास्त्रैः सह विरुद्धत्वात् , मूर्तेभ्यो भूतेभ्योऽमूर्तचैतन्योत्पादस्य विरुद्धत्वाद्भुतेभ्य उत्पद्यमानस्यान्यत आगच्छतो वा चैतन्यस्यादर्शनात् आत्मवचैतन्यस्यापि ऐन्द्रियकप्रत्यक्षाविषयत्वादित्यादि । तदेवं बौद्धादीनामन्येषां सर्वेषामागमाः तत्प्रणेतृणामसर्वज्ञत्वमेव साधयन्ति, न पुनः सर्वज्ञमूलता, पूर्वापरविरुद्धार्थवचनोपेतत्वात् , जैनमतं तु सर्वथा पूर्वापरविरुद्धाभावात् स्वस्य सर्वज्ञमूलतामेवावेदयतीति स्थितम् ॥ छ ।।
इति अन्यमत-दूषणम् ॥
For Private And Personal Use Only