SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सैवानित्यादिभिर्महदादिविकारैः परिणमते इति चाभिधीयते तच्च पूर्वापरतोऽसम्बद्धं, अथाध्यवसायस्य बुद्धिव्यापारत्वाच्चेतनाविषयपरिच्छेदरहितार्थत्वं न बुध्यते इत्येतत् सर्वलोकप्रतीतिविरुद्धं, बुद्धिर्महदाख्या जडा न किमपि चेतयते इत्यपि स्वपरप्रतीतिविरुद्धं, आकाशादिभूतपञ्चकं शब्दादितन्मात्रेभ्यः सूक्ष्मसंज्ञेभ्य उत्पन्नं यदुच्यते तदपि नित्यैकान्तवादे पूर्वापरविरुद्धं कथं श्रद्धेयं ! यथा पुरुषस्य कूटस्थनित्यत्वान्न विकृतिबंधमोक्षौ चाभ्युपगम्यन्ते परैस्ते नित्यत्वं च परस्परविरुद्धाः । [इति सांख्यमते विरोधाः] मीमांसकस्य पुनरेवं स्वमतविरोधः'न हिंस्यात् सर्वभूतानी 'ति [ छं. अ. ८. ] ' न वै हिंस्रो भवेदिति चाभिधाय 'महोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेत्' [ याज्ञवल्क्यस्मृति-आचार १०९.] इति जल्पतो वेदस्य कथं न पूर्वापरविरोधः १ तथा न ' हिंस्यात् सर्वभूतानी'ति प्रथममुक्त्वा पश्चात्तदागमे पठितमेवं-षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि। अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः ॥ १॥ [ ] तथा 'अग्नीषोमीयं पशुमालमेत' [ऐतरेयआरण्यक ६-१३.] 'सप्तदशप्राजापत्यान् पशूनालभेते' [ तैत्तिरीयसंहिता १-४. ]त्यादि वचनानि कथमिव न पूर्वापरविरोधमनुसरन्ते, तथानृतभाषणं निषेध्य पश्चादूचे ब्राह्मणार्थमनृतं ब्रूयादित्यादि, तथा ' न नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन्न विवाहकाले। प्राणात्यये सर्वधनापहारे, पंचा For Private And Personal Use Only
SR No.020695
Book TitleShanti Shloak Tika Tatha Anyamat Dushanam
Original Sutra AuthorN/A
AuthorVikramvijay
PublisherChandulal Jamnadas
Publication Year1954
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy